Loading...
ऋग्वेद मण्डल - 6 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 61/ मन्त्र 14
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - सरस्वती छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क्। जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥१४॥

    स्वर सहित पद पाठ

    सर॑स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः॑ । मा । अप॑ । स्फ॒रीः॒ । पय॑सा । मा । नः॒ । आ । ध॒क् । जु॒षस्व॑ । नः॒ । स॒ख्या । वे॒श्या॑ । च॒ । मा । त्वत् । क्षेत्रा॑णि । अर॑णानि । ग॒न्म॒ ॥


    स्वर रहित मन्त्र

    सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक्। जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥१४॥

    स्वर रहित पद पाठ

    सरस्वति। अभि। नः। नेषि। वस्यः। मा। अप। स्फरीः। पयसा। मा। नः। आ। धक्। जुषस्व। नः। सख्या। वेश्या। च। मा। त्वत्। क्षेत्राणि। अरणानि। गन्म ॥१४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 61; मन्त्र » 14
    अष्टक » 4; अध्याय » 8; वर्ग » 32; मन्त्र » 4

    अन्वयः - हे सरस्वति विदुषि स्त्रि ! या त्वं नो वस्योऽभि नेषि सा त्वं सुशिक्षितया वाचा विरहानस्मान् माप स्फरीः पयसा वियोज्य नोऽस्मान् माऽऽधक् वेश्या सख्या च नोऽस्माञ्जुषस्व त्वदरणानि क्षेत्राणि वयं मा गन्म तस्मात्त्वं पूजनीयासि ॥१४॥

    पदार्थः -
    (सरस्वती) बहुविद्यायुक्ते (अभि) (नः) अस्माकम् (नेषि) नयसि (वस्यः) अतिशयेन वसीयः (मा) (अप) (स्फरीः) अवृद्धं मा कुर्याः (पयसा) रसविशेषेण (मा) (नः) अस्मान् (आ) समन्तात् (धक्) दहेत् (जुषस्व) सेवस्व (नः) अस्मान् (सख्या) मित्रत्वेन (वेश्या) उपवेष्टुं योग्येन (च) (मा) (त्वत्) (क्षेत्राणि) क्षियन्ति निवसन्ति येषु तानि (अरणानि) अरमणीयानि (गन्म) प्राप्नुयाम ॥१४॥

    भावार्थः - हे मनुष्या ! या विदुष्यः स्त्रियो यथा विद्यासुशिक्षाभ्यां युक्ता वाणी सर्वत्र संरक्ष्य सर्वथा वर्धयति या वा सत्यभाषणादिनाऽकल्याणं न प्रापयति तद्वद्वर्त्तमानाः सन्ति ता अस्माञ्छोकादिभ्यो वियोज्य मित्रत्वेन संसेवन्ते सर्वदैव चाऽऽनन्दयन्ति ॥१४॥ अत्र वाग्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्याणां परमविदुषां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते सुप्रमाणयुक्ते संस्कृतार्यभाषाविभूषित ऋग्वेदभाष्ये चतुर्थाऽष्टकेऽष्टमोऽध्यायो द्वात्रिंशो वर्गश्चतुर्थोऽष्टकश्च षष्ठे मण्डले पञ्चमोऽनुवाक एकषष्टितमं सूक्तं च समाप्तम् ॥

    इस भाष्य को एडिट करें
    Top