ऋग्वेद - मण्डल 6/ सूक्त 61/ मन्त्र 13
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - सरस्वती
छन्दः - निचृज्जगती
स्वरः - निषादः
प्र या म॑हि॒म्ना म॒हिना॑सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा॑म॒पस्त॑मा। रथ॑इव बृह॒ती वि॒भ्वने॑ कृ॒तोप॒स्तुत्या॑ चिकि॒तुषा॒ सर॑स्वती ॥१३॥
स्वर सहित पद पाठप्र । या । म॒हि॒म्ना । म॒हिना॑सु । चेकि॑ते । द्यु॒म्नेभिः॑ । अ॒न्याः । अ॒पसा॑म् । अ॒पःऽत॑मा । रथः॑ऽइव । बृ॒ह॒ती । वि॒ऽभ्वने॑ । कृ॒ता । उ॒प॒ऽस्तुत्या॑ । चि॒कि॒तुषा॑ । सर॑स्वती ॥
स्वर रहित मन्त्र
प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा। रथइव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥१३॥
स्वर रहित पद पाठप्र। या। महिम्ना। महिनासु। चेकिते। द्युम्नेभिः। अन्याः। अपसाम्। अपःऽतमा। रथःऽइव। बृहती। विऽभ्वने। कृता। उपऽस्तुत्या। चिकितुषा। सरस्वती ॥१३॥
ऋग्वेद - मण्डल » 6; सूक्त » 61; मन्त्र » 13
अष्टक » 4; अध्याय » 8; वर्ग » 32; मन्त्र » 3
अष्टक » 4; अध्याय » 8; वर्ग » 32; मन्त्र » 3
विषयः - पुनः सा कीदृशीत्याह ॥
अन्वयः - हे मनुष्या ! या महिम्ना महिनाऽपसामपस्तमा रथइव बृहती विभ्वने चिकितुषोपस्तुत्या कृता निष्पादिता सरस्वती द्युम्नेभिरन्या आसु प्र चेकिते तां यथावद्विज्ञाय सत्यां वाचं सम्प्रयुङ्ध्वम् ॥१३॥
पदार्थः -
(प्र) (या) (महिम्ना) महत्त्वेन (महिना) महती (आसु) (चेकिते) विज्ञापयतु (द्युम्नेभिः) प्रकाशनैर्यशोभिः (अन्याः) प्रतिप्राणिनं भिन्ना वाचः (अपसाम्) कर्मकर्तॄणाम् (अपस्तमा) अतिशयेन कर्मकर्त्री (रथइव) रमणीयाकाश इव (बृहती) बृंहती (विभ्वने) विभुत्वाय (कृता) जगदीश्वरेण निर्मिता (उपस्तुत्या) ययोपस्तौति तया (चिकितुषा) विज्ञापयित्र्या (सरस्वती) सरो विज्ञानं विद्यते यस्यां सा ॥१३॥
भावार्थः - हे मनुष्याः ! सुविद्यासुशिक्षासत्सङ्गसत्यभाषणयोगाभ्यासादिभिर्निष्पन्ना वागियं व्याप्ता वा समर्था वर्त्तते तां यूयं विजानीत ॥१३॥
इस भाष्य को एडिट करें