ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - स्वराड्बृहती
स्वरः - मध्यमः
क्व१॒॑त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान्। आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥१॥
स्वर सहित पद पाठक्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् । आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥
स्वर रहित मन्त्र
क्व१त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान्। आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥१॥
स्वर रहित पद पाठक्व। त्या। वल्गू इति। पुरुऽहूता। अद्य। दूतः। न। स्तोमः। अविदत्। नमस्वान्। आ। यः। अर्वाक्। नासत्या। ववर्त। प्रेष्ठा। हि। असथः। अस्य। मन्मन् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 3; मन्त्र » 1
विषयः - अथ सभासेनेशौ किं प्राप्नुत इत्याह ॥
अन्वयः - हे वल्गू पुरुहूता प्रेष्ठा नासत्या ! योऽर्वागद्य नमस्वान् स्तोमो दूतो नाविदत् क्वास्य मन्मन्ना ववर्त्त त्या हि युवामसथः ॥१॥
पदार्थः -
(क्व) (त्या) तौ (वल्गू) शोभनवाचौ। वल्गु इति वाङ्नाम। (निघं०१.११) (पुरुहूता) बहुभिः प्रशंसितौ (अद्य) इदानीम् (दूतः) समाचारप्रापकः (न) इव (स्तोमः) श्लाघनीयः (अविदत्) प्राप्नोति (नमस्वान्) बह्वन्नयुक्तः सत्कृतो वा (आ) (यः) (अर्वाक्) योऽधोञ्चति (नासत्या) सत्यस्वभावौ (ववर्त) वर्त्तते (प्रेष्ठा) अतिशयेन प्रियौ (हि) (असथः) भवथः (अस्य) (मन्मन्) मन्मनि विज्ञाने ॥१॥
भावार्थः - अत्रोपमालङ्कारः। येऽस्य जगतो विज्ञाने प्रयतन्ते ते क्वापि दुःखिता न भवन्ति ॥१॥
इस भाष्य को एडिट करें