Loading...
ऋग्वेद मण्डल - 6 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 8
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अश्विनौ छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम्। स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥८॥

    स्वर सहित पद पाठ

    पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् । स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥


    स्वर रहित मन्त्र

    पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम्। स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥८॥

    स्वर रहित पद पाठ

    पुरु। हि। वाम्। पुरुऽभुजा। देष्णम्। धेनुम्। नः। इषम्। पिन्वतम्। असक्राम्। स्तुतः। च। वाम्। माध्वी इति। सुऽस्तुतिः। च। रसाः। च। ये। वाम्। अनु। रातिम्। अग्मन् ॥८॥

    ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 8
    अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 3

    अन्वयः - हे पुरुभुजा ! वां युवां नः पुरु देष्णं धेनुमसक्रामिषं च पिन्वतम्। यो हि स्तुतः स च वां पिन्वतु ये वां माध्वी सुष्टुती रसाश्च सन्ति तै रातिमन्वग्मँस्तैरस्मान् योजयतम् ॥८॥

    पदार्थः -
    (पुरु) बहु (हि) निश्चये (वाम्) युवयोः (पुरुभुजा) बहुपालकौ (देष्णम्) दातव्यम् (धेनुम्) वाचम् (नः) अस्मभ्यम् (इषम्) अन्नं विज्ञानं वा (पिन्वतम्) सुखयतम् (असक्राम्) या सहनं क्रामति ताम् (स्तुतः) प्रशंसितः (च) (वाम्) (माध्वी) माधुर्य्यादिगुणोपेता (सुष्टुतिः) श्रेष्ठा प्रशंसा (च) (रसाः) मधुरादयः (च) (ये) (वाम्) युवाम् (अनु) (रातिम्) दानम् (अग्मन्) प्राप्नुवन्ति ॥८॥

    भावार्थः - यदि राजप्रजाजनाः परस्परेषामुपकाराय प्रयतेरँस्तर्ह्येतान् सर्वा प्रशंसा सकलमैश्वर्यं च प्राप्नुयात् ॥८॥

    इस भाष्य को एडिट करें
    Top