ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 9
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा। शा॒ण्डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥९॥
स्वर सहित पद पाठउ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा । शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥
स्वर रहित मन्त्र
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा। शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥९॥
स्वर रहित पद पाठउत। मे। ऋज्रे इति। पुरयस्य। रघ्वी इति। सुऽमीळ्हे। शतम्। पेरुके। च। पक्वा। शाण्डः। दात्। हिरणिनः। स्मत्ऽदिष्टीन्। दश। वशासः। अभिऽसाचः। ऋष्वान् ॥९॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 9
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 4
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 4
विषयः - पुनर्मनुष्यैः किं कर्त्तव्यमित्याह ॥
अन्वयः - येऽभिषाचो वशासः पुरयस्य म ऋज्रे सुमीळ्ह उत पेरुके रघ्वी पक्वा च शाण्डो दात् तान् हिरणिनः स्मद्दिष्टीनृष्वान् दश शतं चाऽहं प्राप्नुयाम् ॥९॥
पदार्थः -
(उत) (मे) मम (ऋज्रे) ऋजुप्रिये (पुरयस्य) यः पुरोऽयते प्राप्नोति तस्य (रघ्वी) पक्वानि (शाण्डः) यः श्यति तनूकरोति तथाऽयम्। अत्र शो तनूकरण इत्यस्मादौणादिकोऽडच् प्रत्ययः। (दात्) ददाति (हिरणिनः) हिरणाः सन्ति येषां तान् (स्मद्दिष्टीन्) प्रशंसितदर्शनान् (दश) एतत्सङ्ख्याकानश्वान् रथादीन् वा (वशासः) ये वशं प्राप्ताः (अभिषाचः) ये आभिमुख्येन सचन्ति ते (ऋष्वान्) महतः। ऋष्व इति महन्नाम। (निघं०३.३) ॥९॥
भावार्थः - हे मनुष्या ! ये मम वशीभूताः प्रीतियुक्ता महान्तः सहाया भवन्ति तदधीनोऽहमपि भवेयमेवं परस्परे वशत्वे सत्युत्तमान्यसंख्यानि कार्याणि कर्तुं शक्नुयाम् ॥९॥
इस भाष्य को एडिट करें