ऋग्वेद - मण्डल 6/ सूक्त 65/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - उषाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य। म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥३॥
स्वर सहित पद पाठश्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य । म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥
स्वर रहित मन्त्र
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय। मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥३॥
स्वर रहित पद पाठश्रवः। वाजम्। इषम्। ऊर्जम्। वहन्तीः। नि। दाशुषे। उषसः। मर्त्याय। मघोनीः। वीरऽवत्। पत्यमानाः। अवः। धात। विधते। रत्नम्। अद्य ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 65; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 6; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 6; मन्त्र » 3
विषयः - पुनस्ताः कीदृश्यः स्युरित्याह ॥
अन्वयः - हे पुरुषा ! या उषस इव दाशुषे विधते मर्त्याय श्रवो वाजमिषमूर्जं वहन्तीर्मघोनीर्वीरवत्पत्यमानाः स्त्रियोऽद्य रत्नमवः प्राप्नुवन्ति ता यूयं नि धात ॥३॥
पदार्थः -
(श्रवः) श्रवणम् (वाजम्) विज्ञानम् (इषम्) अन्नम् (ऊर्जम्) पराक्रमम् (वहन्तीः) प्रापयन्त्यः (नि) नितराम् (दाशुषे) विद्यादिशुभगुणदात्रे (उषसः) प्रभातवेलाः (मर्त्याय) मनुष्याय (मघोनीः) बहूत्तमधनाः (वीरवत्) शूरवीरतुल्याः (पत्यमानाः) प्राप्नुवन्त्यः (अवः) रक्षणम् (धात) धत्त (विधते) सेवमानाय (रत्नम्) रमणीयम् (अद्य) इदानीम् ॥३॥
भावार्थः - हे मनुष्या ! या उषर्वद्वर्त्तमानाः सत्यशास्त्रश्रवणादियुक्ता बलिष्ठा विचक्षणा धनैश्वर्यवर्धिका रक्षणे तत्परा विदुष्यः स्त्रियः स्युस्तासां मध्यात् स्वस्वप्रियां भार्यां सर्वे गृह्णन्तु ॥३॥
इस भाष्य को एडिट करें