ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 8
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - मरुतः
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ। तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥८॥
स्वर सहित पद पाठन । अस्य॑ । व॒र्ता । न । त॒रु॒ता । नु । अ॒स्ति॒ । मरु॑तः । यम् । अव॑थ । वाज॑ऽसातौ । तो॒के । वा॒ । गोषु॑ । तन॑ये । यम् । अ॒प्ऽसु । सः । व्र॒जम् । दर्ता॑ । पार्ये॑ । अध॑ । द्योः ॥
स्वर रहित मन्त्र
नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ। तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥८॥
स्वर रहित पद पाठन। अस्य। वर्ता। न। तरुता। नु। अस्ति। मरुतः। यम्। अवथ। वाजऽसातौ। तोके। वा। गोषु। तनये। यम्। अप्ऽसु। सः। व्रजम्। दर्ता। पार्ये। अध। द्योः ॥८॥
ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 8
अष्टक » 5; अध्याय » 1; वर्ग » 8; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 8; मन्त्र » 3
विषयः - कै रक्षणे कृते भयं न विद्यत इत्याह ॥
अन्वयः - हे मरुतो विद्वांसो ! यूयं वाजसातौ यं गोष्वप्सु तोके वा तनये यमवथास्य कोऽपि वर्त्ता नास्ति कोऽपि तरुता नास्ति सोऽध पार्य्ये द्योः व्रजमिव शत्रुसेनाया दर्त्ता न्वस्ति ॥८॥
पदार्थः -
(न) (अस्य) (वर्त्ता) वर्त्तयिता (न) (तरुता) उल्लङ्घयिता (नु) सद्यः (अस्ति) (मरुतः) उत्तमा मनुष्याः (यम्) (अवथ) रक्षथ (वाजसातौ) (तोके) अपत्ये (वा) (गोषु) गवादिषु पशुषु पृथिवीविभागेषु वा (तनये) सुकुमारे (यम्) (अप्सु) उदकेषु (सः) (व्रजम्) मेघम् (दर्त्ता) विदारकः (पार्ये) पारयितव्ये (अध) अथ (द्योः) प्रकाशस्य ॥८॥
भावार्थः - हे मनुष्या ! येषां विद्वांसो रक्षकाः स्युस्तेषां कुतश्चिद्भयं नाप्नोति यथा सूर्याद् वृष्टिर्भूत्वा जगन्निर्भयं जायते तथैव धार्मिकविद्वत्सङ्घात् सर्वं राष्ट्रमभयं भवति ॥८॥
इस भाष्य को एडिट करें