ऋग्वेद - मण्डल 7/ सूक्त 10/ मन्त्र 4
इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म्। आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥४॥
स्वर सहित पद पाठइन्द्र॑म् । नः॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ । रु॒द्रम् । रु॒द्रेभिः । आ । व॒ह॒ । बृ॒हन्त॑म् । आ॒दि॒त्येभिः॑ । अदि॑तिम् । वि॒श्वऽज॑न्याम् । बृह॒स्पति॑म् । ऋक्व॑ऽभिः । वि॒श्वऽवा॑रम् ॥
स्वर रहित मन्त्र
इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम्। आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥४॥
स्वर रहित पद पाठइन्द्रम्। नः। अग्ने। वसुऽभिः। सऽजोषाः। रुद्रम्। रुद्रेभिः। आ। वह। बृहन्तम्। आदित्येभिः। अदितिम्। विश्वऽजन्याम्। बृहस्पतिम्। ऋक्वऽभिः। विश्वऽवारम् ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 10; मन्त्र » 4
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 4
अष्टक » 5; अध्याय » 2; वर्ग » 13; मन्त्र » 4
विषयः - को विद्वान् सततं सेवनीय इत्याह ॥
अन्वयः - हे अग्ने ! सजोषास्त्वं नो वसुभिः रुद्रेभिर्बृहन्तं रुद्रमादित्येभिर्विश्वजन्यामदितिमृक्वभिर्विश्ववारं बृहस्पतिमा वहा ॥४॥
पदार्थः -
(इन्द्रम्) विद्युतम् (नः) अस्माकम् (अग्ने) पावक इव विद्वन् (वसुभिः) पृथिव्यादिभिः (सजोषाः) समानसेवी (रुद्रम्) जीवात्मानम् (रुद्रेभिः) प्राणैस्सह (आ वहा) समन्तात्प्रापय। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (बृहन्तम्) महान्तम् (आदित्येभिः) संवत्सरस्य मासैः (अदितिम्) अखण्डितां कालविद्याम् (विश्वजन्याम्) विश्वं जन्यं यया ताम् (बृहस्पतिम्) बृहत्या ऋग्वेदादिवेदवाचः पालकं परमात्मानम् (ऋक्वभिः) ऋग्वेदादिभिः (विश्ववारम्) सर्वैर्वरणीयम् ॥४॥
भावार्थः - यो हि पृथिव्यादिविद्यया सह विद्युद्विद्यां प्राणविद्यया सह जीवविद्यां कालविद्यया सह प्रकृतिविज्ञानं वेदविद्यया परमात्मानं ज्ञापयितुं शक्नोति तमेव सर्वे विद्यार्थमाश्रयन्तु ॥४॥
इस भाष्य को एडिट करें