ऋग्वेद - मण्डल 7/ सूक्त 11/ मन्त्र 5
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम्। इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५॥
स्वर सहित पद पाठआ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् । इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम्। इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥५॥
स्वर रहित पद पाठआ। अग्ने। वह। हविःऽअद्याय। देवान्। इन्द्रऽज्येष्ठासः। इह। मादयन्ताम्। इमम्। यज्ञम्। दिवि। देवेषु। धेहि। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥५॥
ऋग्वेद - मण्डल » 7; सूक्त » 11; मन्त्र » 5
अष्टक » 5; अध्याय » 2; वर्ग » 14; मन्त्र » 5
अष्टक » 5; अध्याय » 2; वर्ग » 14; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अग्ने ! त्वमद्याय देवान् हविरावह तेनेहेन्द्रज्येष्ठासो जना मादयन्तां त्वमिमं यज्ञं दिवि देवेषु धेहि हे विद्वांसो ! यूयं स्वस्तिभिर्नः सदा पात ॥५॥
पदार्थः -
(आ) समन्तात् (अग्ने) वह्निरिव विद्वन् (वह) सर्वतः प्रापय (हविः) अत्तुमर्हम् (अद्याय) अत्तुं योग्याय (देवान्) विदुषः (इन्द्रज्येष्ठासः) इन्द्रो राजा ज्येष्ठो येषान्ते (इह) अस्मिन्समये (मादयन्ताम्) आनन्दयन्तु (इमम्) वर्त्तमानम् (यज्ञम्) धर्म्यं व्यवहारम् (दिवि) द्योतनात्मके परमात्मनि (देवेषु) विद्वत्सु (धेहि) यूयम् (पात) (स्वस्तिभिः) सुखैः (सदा) (नः) अस्मान् ॥५॥
भावार्थः - हे विद्वांसो ! यथाग्निः सूर्यादिरूपेण सर्वानानन्दयति तथाऽत्र यूयं सर्वान् संरक्ष्य कर्त्तव्यं कारयित्वेष्टान् भोगान् प्रापयतेति ॥५॥ अत्राग्निविद्वत्कृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकादशं सूक्तं चतुर्दशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें