साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 13/ मन्त्र 1
प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम्। भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नाम् ॥१॥
स्वर सहित पद पाठप्र । अ॒ग्नये॑ । वि॒श्व॒ऽशुचे॑ । धि॒य॒म्ऽधे॑ । अ॒सु॒र॒ऽघ्ने । मन्म॑ । धी॒तिम् । भ॒र॒ध्व॒म् । भरे॑ । ह॒विः । न । ब॒र्हिषि॑ । प्री॒णा॒नः । वै॒श्वा॒न॒राय॑ । यत॑ये । म॒ती॒नाम् ॥
स्वर रहित मन्त्र
प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम्। भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥१॥
स्वर रहित पद पाठप्र। अग्नये। विश्वऽशुचे। धियम्ऽधे। असुरऽघ्ने। मन्म। धीतिम्। भरध्वम्। भरे। हविः। न। बर्हिषि। प्रीणानः। वैश्वानराय। यतये। मतीनाम् ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 13; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 16; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 16; मन्त्र » 1
विषयः - अथ संन्यासिनः कीदृशो भवन्तीत्याह ॥
अन्वयः - हे मनुष्या ! मतीनां मध्ये वैश्वानराय विश्वशुचे धियन्धेऽसुरघ्नेऽग्नये यतये बर्हिषि प्रीणानो राजा भरे हविर्न मन्म धीतिञ्च यूयं प्र भरध्वम् ॥१॥
पदार्थः -
(प्र) (अग्नये) अग्निरिव विद्यादिशुभगुणैः प्रकाशमानाय (विश्वशुचे) यो विश्वं सर्वं जगच्छोधयति तस्मै (धियन्धे) यो धियं दधाति तस्मै (असुरघ्ने) योऽसुरान् दुष्टकर्मकारिणो हन्ति तिरस्करोति तस्मै (मन्म) विज्ञानम् (धीतिम्) धर्मस्य धारणाम् (भरध्वम्) धरध्वं पोषयत वा (भरे) सङ्ग्रामे (हविः) दातव्यमत्तव्यमन्नादिकम् (न) इव (बर्हिषि) सभायाम् (प्रीणानः) प्रसन्नः (वैश्वानराय) विश्वेषां नराणां नायकाय (यतये) यतमानाय संन्यासिने (मतीनाम्) मनुष्याणां मध्ये ॥१॥
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे गृहस्था ! येऽग्निवद्विद्यासत्यधर्मप्रकाशका अधर्मखण्डनेन धर्ममण्डनेन सर्वेषां शुद्धिकराः प्रज्ञाः प्रमाप्रदा अविद्वत्ताविनाशका मनुष्याणां विज्ञानं धर्मधारणं च कारयन्तो यतयः संन्यासिनो भवेयुस्तत्सङ्गेन सर्वे यूयं प्रज्ञां धृत्वा निःसंशया भवत। यथा राजा युद्धस्य सामग्रीमलङ्करोति तथैव यतिवराः सुखस्य सामग्रीमलंकुर्वन्ति ॥१॥
इस भाष्य को एडिट करें