ऋग्वेद - मण्डल 7/ सूक्त 21/ मन्त्र 10
स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑। वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०॥
स्वर सहित पद पाठसः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ । वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति। वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥
स्वर रहित पद पाठसः। नः। इन्द्र। त्वऽयतायै। इषे। धाः। त्मना। च। ये। मघऽवानः। जुनन्ति। वस्वी। सु। ते। जरित्रे। अस्तु। शक्तिः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥१०॥
ऋग्वेद - मण्डल » 7; सूक्त » 21; मन्त्र » 10
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 5
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 5
विषयः - पुनः राजप्रजाजनाः परस्परं कथं वर्तेरन्नित्याह ॥
अन्वयः - हे इन्द्र ! स त्वं त्मना त्वयताया इषे नो धाः। ये च मघवानो जुनन्ति ताँश्चास्यै धाः। येन ते जरित्रे वस्वी शक्तिरस्तु। हे अमात्या ! यूयं स्वस्तिभिर्नः सदा सु पात ॥१०॥
पदार्थः -
(सः) (नः) अस्मान् (इन्द्र) दुःखविदारक (त्वयतायै) त्वया प्रयत्नेन साधितायै (इषे) इच्छासिद्धयेऽन्नप्राप्तये वा (धाः) धेहि (त्मना) आत्मना (च) (ये) (मघवानः) नित्यं धनाढ्याः (जुनन्ति) प्रेरयन्ति (वस्वी) धनकारिणी (सु) (ते) तव (जरित्रे) स्तावकाय (अस्तु) (शक्तिः) सामर्थ्यम् (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥१०॥
भावार्थः - हे राजँस्त्वं प्रयत्नेन सर्वान् पुरुषार्थयित्वा धनाढ्यान् सततं कुर्याः धनाढ्याँश्च सत्कर्मसु प्रेरय यतो भवतस्त्व भृत्यानां चाऽलौकिकी शक्तिः स्यादेते च भवन्तं सदा रक्षेयुरिति ॥१०॥ अत्र राजप्रजाविद्वदिन्द्रमित्रसत्यगुणयाच्ञादिगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकविंशतितमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें