ऋग्वेद - मण्डल 7/ सूक्त 21/ मन्त्र 9
सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र। व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑भी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥९॥
स्वर सहित पद पाठसखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ । व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒मी॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥
स्वर रहित मन्त्र
सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र। वन्वन्तु स्मा तेऽवसा समीके३भीतिमर्यो वनुषां शवांसि ॥९॥
स्वर रहित पद पाठसखायः। ते। इन्द्र। विश्वह। स्याम। नमःऽवृधासः। महिना। तरुत्र। वन्वन्तु। स्म। ते। अवसा। समीके। अभिऽइतिम्। अर्यः। वनुषाम्। शवांसि ॥९॥
ऋग्वेद - मण्डल » 7; सूक्त » 21; मन्त्र » 9
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 4; मन्त्र » 4
विषयः - पुनः कस्य मित्रता कार्येत्याह ॥
अन्वयः - हे तरुतेन्द्र ! नमोवृधासो वयं महिना विश्वह ते सखायः स्याम ये ते समीकेऽवसाऽभीतिं वनुषां शवांसि च वन्वन्तु स्मार्यस्त्वमेतदेषां दध्याः ॥९॥
पदार्थः -
(सखायः) सुहृदः सन्तः (ते) तव (इन्द्र) राजन् (विश्वह) सर्वाणि दिनानि (स्याम) (नमोवृधासः) अन्नस्य वर्धका अन्नेन वृद्धा वा (महिना) महिम्ना (तरुत्र) दुःखात्तारक (वन्वन्तु) याचन्ताम् (स्मा) एव। अत्र निपातस्य चेति दीर्घः। (ते) तव (अवसा) रक्षणादिना (समीके) समीपे (अभीतिम्) अभयम् (अर्यः) स्वामी वैश्यः (वनुषाम्) याचकानाम् (शवांसि) बलानि ॥९॥
भावार्थः - ये धार्मिकस्य राज्ञो नित्यं सख्यमिच्छन्ति ते महिम्ना सत्क्रियन्ते ये प्रजाऽभ्योऽभयं ददति ते प्रत्यहं बलिष्ठा जायन्ते ॥९॥
इस भाष्य को एडिट करें