ऋग्वेद - मण्डल 7/ सूक्त 29/ मन्त्र 4
उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मशृ॑णो॒र्ऋषी॑णाम्। अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥४॥
स्वर सहित पद पाठउ॒तो इति॑ । घ॒ । ते । पु॒रु॒ष्याः॑ । इत् । आ॒स॒न् । येषा॑म् । पूर्वे॑षाम् । अ॒शृ॒णोः॒ । ऋषी॑णाम् । अध॑ । अ॒हम् । त्वा॒ । म॒घ॒ऽव॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्रऽम॑तिः । पि॒ताऽइ॑व ॥
स्वर रहित मन्त्र
उतो घा ते पुरुष्या३ इदासन्येषां पूर्वेषामशृणोर्ऋषीणाम्। अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥४॥
स्वर रहित पद पाठउतो इति। घ। ते। पुरुष्याः। इत्। आसन्। येषाम्। पूर्वेषाम्। अशृणोः। ऋषीणाम्। अध। अहम्। त्वा। मघऽवन्। जोहवीमि। त्वम्। नः। इन्द्र। असि। प्रऽमतिः। पिताऽइव ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 29; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 4
विषयः - केऽध्यापका वरतमाः सन्तीत्याह ॥
अन्वयः - हे मघवन्निन्द्र ! यस्त्वं येषां पूर्वेषामृषीणां सकाशाद्वेदानशृणोरुतो ये पुरुष्या घासँस्ते नोऽस्माकमध्यापकाः सन्तु यतस्त्वं नोऽस्माकं पितेव प्रमतिरसि तस्मादधाहं त्वेज्जोहवीमि ॥४॥
पदार्थः -
(उतो) अपि (घ) एव। अत्र ऋचि तुनुघेति दीर्घः। (ते) (पुरुष्याः) पुरुषेषु साधवः (इत्) एव (आसन्) भवन्ति (येषाम्) (पूर्वेषाम्) पूर्वमधीतविद्यानाम् (अशृणोः) शृणुयाः (ऋषीणाम्) वेदार्थशब्दसम्बन्धविदाम् (अध) अथ (अहम्) (त्वा) त्वाम् (मघवन्) विद्यैश्वर्यसम्पन्न (जोहवीमि) भृशं प्रशंसामि (त्वम्) (नः) अस्माकम् (इन्द्र) विद्यैश्वर्यप्रद (असि) (प्रमतिः) प्रकृष्टप्रज्ञः (पितेव) जनकवत् ॥४॥
भावार्थः - अत्रोपमालङ्कारः । ये विद्वांसः पितरः पुत्रानिव विद्यार्थिनः पालयन्ति त एव सत्कर्तव्याः प्रशंसनीया भवन्ति ॥४॥
इस भाष्य को एडिट करें