ऋग्वेद - मण्डल 7/ सूक्त 29/ मन्त्र 3
का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम। विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र शृणवो॒ हवे॒मा ॥३॥
स्वर सहित पद पाठका । ते॒ । अ॒स्ति॒ । अर॑म्ऽकृतिः । सु॒ऽउ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒ऽव॒न् । दा॒शे॒म॒ । विश्वाः॑ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒ऽया । अध॑ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा॑ । इ॒मा ॥
स्वर रहित मन्त्र
का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम। विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥३॥
स्वर रहित पद पाठका। ते। अस्ति। अरम्ऽकृतिः। सुऽउक्तैः। कदा। नूनम्। ते। मघऽवन्। दाशेम। विश्वाः। मतीः। आ। ततने। त्वाऽया। अध। मे। इन्द्र। शृणवः। हवा। इमा ॥३॥
ऋग्वेद - मण्डल » 7; सूक्त » 29; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 3
अष्टक » 5; अध्याय » 3; वर्ग » 13; मन्त्र » 3
विषयः - केऽध्यापकाऽध्येतारः परीक्षकाः प्रशंसनीया इत्याह ॥
अन्वयः - हे मघवन्निन्द्र ! का तेऽरङ्कृतिरस्ति सूक्तैस्ते नूनं विश्वा मतीर्वयं कदा दाशेम त्वायाऽहमा ततनेऽध त्वं मे ममेमा हवा शृणवः ॥३॥
पदार्थः -
(का) (ते) तव (अस्ति) (अरङ्कृतिः) अलङ्कारः (सूक्तैः) सुष्ठूक्तार्थैर्वेदवचोभिः (कदा) (नूनम्) निश्चितम् (ते) तुभ्यम् (मघवन्) (दाशेम) दद्याम (विश्वाः) अखिलाः (मतीः) प्रज्ञाः (आ) (ततने) विस्तृणीयाम् (त्वाया) त्वदीयया (अध) अथ। अत्र निपातस्य चेति दीर्घः। (मे) मम (इन्द्र) विद्यैश्वर्यसम्पन्न (शृणवः) शृणु (हवा) हवानि श्रुतानि (इमा) इमानि ॥३॥
भावार्थः - तेऽध्यापकाः श्रेष्ठा भवन्ति य इमान् स्वकीयान् विद्यार्थिनः कदा विद्वांसः करिष्यामेतीच्छन्ति सर्वेभ्यः सत्यानि प्रज्ञानानि प्रयच्छन्ति त एव विद्यार्थिनः श्रेष्ठाः सन्ति य उत्साहेन स्वाधीतस्योत्तमाम्परीक्षां प्रददति त एव परीक्षकाः श्रेष्ठाः सन्ति ये परीक्षायां कस्यापि पक्षपातं न कुर्वन्ति ॥३॥
इस भाष्य को एडिट करें