ऋग्वेद - मण्डल 7/ सूक्त 42/ मन्त्र 5
इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः। आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥५॥
स्वर सहित पद पाठइ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ । आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥
स्वर रहित मन्त्र
इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः। आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥५॥
स्वर रहित पद पाठइमम्। नः। अग्ने। अध्वरम्। जुषस्व। मरुत्ऽसु। इन्द्रे। यशसम्। कृधि। नः। आ। नक्ता। बर्हिः। सदताम्। उषसा। उशन्ता। मित्रावरुणा। यज। इह ॥५॥
ऋग्वेद - मण्डल » 7; सूक्त » 42; मन्त्र » 5
अष्टक » 5; अध्याय » 4; वर्ग » 9; मन्त्र » 5
अष्टक » 5; अध्याय » 4; वर्ग » 9; मन्त्र » 5
विषयः - पुनस्ते गृहस्थातिथयः परस्परस्मै किं किं कुर्युरित्याह ॥
अन्वयः - हे अग्ने ! त्वं मरुत्स्विन्द्रे न इममध्वरं सततं जुषस्व नोऽस्माकं यशसं कृधि नक्तोषासा बर्हिरासदतामिहोशन्ता मित्रावरुणा त्वं यज ॥५॥
पदार्थः -
(इमम्) (नः) अस्माकम् (अग्ने) पावक इव विद्याप्रकाशितातिथे (अध्वरम्) उपदेशाख्यं यज्ञम् (जुषस्व) (मरुत्सु) मनुष्येषु (इन्द्रे) राजनि (यशसम्) कीर्तिम् (कृधि) अत्र द्व्यच० इति दीर्घः। (नः) अस्माकम् (आ) (नक्ता) रात्रिम् (बर्हिः) उत्तमासनम् (सदताम्) आसीदेत् (उषसा) दिनेन (उशन्ता) कामयमानौ (मित्रावरुणा) प्राणोदानाविव स्त्रीपुरुषौ (यज) (इह) अस्मिन् जगति ॥५॥
भावार्थः - यदाऽतिथिरागच्छेत्तदा गृहस्था अर्घ्यपाद्यासनमधुपर्कप्रियवचनान्नादिभिः सत्कृत्य पृष्ट्वा सत्यासत्यनिर्णयं कुर्वन्त्वतिथिञ्च प्रश्नान् समादधातु ॥५॥
इस भाष्य को एडिट करें