साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 48/ मन्त्र 4
ऋषिः - वसिष्ठः
देवता - ऋभवो विश्वे देवा वा
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः॑। सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥४॥
स्वर सहित पद पाठनु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ । सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः। समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥४॥
स्वर रहित पद पाठनु। देवासः। वरिवः। कर्तन। नः। भूत। नः। विश्वे। अवसे। सऽजोषाः। सम्। अस्मे इति। इषम्। वसवः। ददीरन्। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 48; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 15; मन्त्र » 4
विषयः - पुना राजादिभिर्विद्वद्भिः किं कर्त्तव्यमित्याह ॥
अन्वयः - हे सजोषा वसवो विश्वे देवासो ! यूयं नो वरिवः कर्त्तन नोऽवसे नु भूताऽस्मे इषं संददीरन् यूयं स्वस्तिभिर्नस्सदा पात ॥४॥
पदार्थः -
(नु) क्षिप्रम्। अत्र ऋचि तुनुघेति दीर्घः। (देवासः) विद्वांसः (वरिवः) (कर्तना) कुर्यात्। अत्र संहितायामिति दीर्घः। (नः) अस्माकम् (भूत) भवत (नः) अस्माकम् (विश्वे) सर्वे (अवसे) रक्षणाद्याय (सजोषाः) समानप्रीतिसेविनः। अत्र वचनव्यत्ययेन जसः स्थाने सुः। (सम्) (अस्मे) अस्मभ्यम् (इषम्) अन्नं विज्ञानं वा (वसवः) ये विद्यायां वसन्ति ते (ददीरन्) प्रयच्छेयुः (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥४॥
भावार्थः - हे विद्वांसो ! राजजना यूयमस्मान् प्रजाः सततं रक्षत सर्वदा विज्ञानमन्नाद्यैश्वर्यं च प्रयच्छत एवं कृते सति युष्मान् वयं सततं रक्षेमेति ॥४॥ अत्र विद्वद्गुणकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टचत्वारिंशत्तमं सूक्तं पञ्चदशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें