साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 51/ मन्त्र 1
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन। अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥१॥
स्वर सहित पद पाठआ॒दि॒त्याना॑म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शम्ऽत॑मेन । अ॒ना॒गाःऽत्वे । अ॒दि॒ति॒ऽत्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष॑माणाः ॥
स्वर रहित मन्त्र
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन। अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥१॥
स्वर रहित पद पाठआदित्यानाम्। अवसा। नूतनेन। सक्षीमहि। शर्मणा। शम्ऽतमेन। अनागाःऽत्वे। अदितिऽत्वे। तुरासः। इमम्। यज्ञम्। दधतु। श्रोषमाणाः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 51; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 18; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 18; मन्त्र » 1
विषयः - अत्र केषां सङ्गेन किं भवतीत्याह ॥
अन्वयः - ये तुरासः श्रोषमाणा अनागास्त्वे अदितित्व इमं यज्ञं दधतु तेषामादित्यानामवसा शन्तमेन नूतनेन शर्मणा सह वयं सक्षीमहि ॥१॥
पदार्थः -
(आदित्यानाम्) पूर्णविद्यानां विदुषाम् (अवसा) रक्षणादिना (नूतनेन) नवीनेन (सक्षीमहि) सम्बध्नीयाम (शर्मणा) विग्रहेण (शन्तमेन) अतिशयेन सुखकर्त्रा (अनागास्त्वे) अनपराधित्वे (अदितित्वे) अखण्डितत्वे (तुरासः) शीघ्रकारिणः (इमम्) (यज्ञम्) (दधतु) (श्रोषमाणाः) श्रवणं कुर्वन्तः ॥१॥
भावार्थः - हे मनुष्या ! यथा वयं विद्वत्सङ्गेनात्यन्तं सुखं प्राप्नुमस्तथैव यूयमपीदं प्राप्नुत ॥१॥
इस भाष्य को एडिट करें