Loading...
ऋग्वेद मण्डल - 7 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 50/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - नद्यः छन्दः - भुरिगतिजगती स्वरः - निषादः

    याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः। ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥४॥

    स्वर सहित पद पाठ

    याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः । ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥


    स्वर रहित मन्त्र

    याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः। ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥४॥

    स्वर रहित पद पाठ

    याः। प्रऽवतः। निऽवतः। उत्ऽवतः। उदन्ऽवतीः। अनुदकाः। च। याः। ताः। अस्मभ्यम्। पयसा। पिन्वमानाः। शिवाः। देवीः। अशिपदाः। भवन्तु। सर्वाः। नद्यः। अशिमिदाः। भवन्तु ॥४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 50; मन्त्र » 4
    अष्टक » 5; अध्याय » 4; वर्ग » 17; मन्त्र » 4

    अन्वयः - याः प्रवतो निवत उद्वतो देशान् गच्छन्ति याश्चोदन्वतीरनुदकास्सन्ति ताः सर्वा नद्योऽस्मभ्यं पयसा पिन्वमाना अशिपदा देवीः शिवा भवन्तु अशिमिदा भवन्तु ॥४॥

    पदार्थः -
    (याः) (प्रवतः) गमनार्हान् (निवतः) निम्नान् (उद्वतः) ऊर्ध्वान् देशान् (उदन्वतीः) उदकयुक्ताः (अनुदकाः) जलरहिताः (च) (याः) (ताः) (अस्मभ्यम्) (पयसा) उदकेन। पय इत्युदकनाम। (निघं०१.१२)(पिन्वमानाः) सिञ्चमानाः प्रीणन्त्यः (शिवाः) सुखकर्यः (देवीः) आनन्दप्रदाः (अशिपदाः) भोजनादिव्यवहाराय प्राप्ताः (भवन्तु) (सर्वाः) (नद्यः) (अशिमिदाः) भोजनादिस्नेहकारिकाः (भवन्तु) ॥४॥

    भावार्थः - हे मनुष्याः ! यावज्जलं नद्यादिषु गच्छति यावच्च मेघमण्डलं प्राप्नोति तावत्सर्वं होमेन शोधयित्वा सेवन्ताम्, यतः सर्वदा मङ्गलं वर्धित्वा दुःखप्रणाशो भवेदिति ॥४॥ अत्राबौषधीविषनिवारणेन शुद्धसेवनमुक्तमत एतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चाशत्तमं सूक्तं सप्तदशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top