साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 53/ मन्त्र 1
प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे। ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥१॥
स्वर सहित पद पाठप्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ । ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥
स्वर रहित मन्त्र
प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे। ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥१॥
स्वर रहित पद पाठप्र। द्यावा। यज्ञैः। पृथिवी इति। नमःऽभिः। सऽबाधः। ईळे। बृहती इति। यजत्रे इति। ते इति। चित्। हि। पूर्वे। कवयः। गृणन्तः। पुरः। मही इति। दधिरे। देवपुत्रे इति देवऽपुत्रे ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 53; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 20; मन्त्र » 1
विषयः - अथ विद्वांसः किं कुर्युरित्याह ॥
अन्वयः - हे मनुष्या ! यथा सबाधोऽहं नमोभिर्यज्ञैः ये मही बृहती यजत्रे पुरो धरन्त्यौ देवपुत्रे द्यावापृथिवी पूर्वे कवयो गृणन्तो दधिरे ते चिद्धि प्रेळे ॥१॥
पदार्थः -
(प्र) (द्यावा) (यज्ञैः) सङ्गतिकरणैः कर्मभिः (पृथिवी) सूर्यभूमी (नमोभिः) अन्नादिभिः (सबाधः) बाधेन सह वर्त्तमानः (ईळे) गुणैः प्रशंसामि (बृहती) महत्यौ (यजत्रे) सङ्गन्तव्ये (ते) (चित्) अपि (हि) (पूर्वे) (कवयः) विद्वांसः (गृणन्तः) स्तुवन्तः (पुरः) पुराणि (मही) महत्यौ (दधिरे) धरन्ति (देवपुत्रे) देवा विद्वांसः पुत्राः पुत्रवत्पालकाः ययोस्ते ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यथा सर्वधारकौ भूमिसूर्यौ विद्वांसो विज्ञायोपकुर्वन्ति तथा यूयमपि कुरुत ॥१॥
इस भाष्य को एडिट करें