Loading...
ऋग्वेद मण्डल - 7 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 52/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - आदित्याः छन्दः - स्वराट्पङ्क्तिः स्वरः - पञ्चमः

    तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः। पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥३॥

    स्वर सहित पद पाठ

    तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः । पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥


    स्वर रहित मन्त्र

    तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः। पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥

    स्वर रहित पद पाठ

    तुरण्यवः। अङ्गिरसः। नक्षन्त। रत्नम्। देवस्य। सवितुः। इयानाः। पिता। च। तत्। नः। महान्। यजत्रः। विश्वे। देवाः। सऽमनसः। जुषन्त ॥३॥

    ऋग्वेद - मण्डल » 7; सूक्त » 52; मन्त्र » 3
    अष्टक » 5; अध्याय » 4; वर्ग » 19; मन्त्र » 3

    अन्वयः - हे मनुष्या ! ये तुरण्यवोऽङ्गिरसस्समनस इयाना जनाः सवितुर्देवस्य सृष्टौ यद्रत्नं नक्षन्त तत्पितेव वर्तमानो महान् यजत्र ईश्वरो विश्वे देवाश्च नोऽस्मभ्यं जुषन्त ॥३॥

    पदार्थः -
    (तुरण्यवः) क्षिप्रं कर्तारः (अङ्गिरसः) प्राणा इव (नक्षन्त) व्याप्नुवन्तु (रत्नम्) रमणीयं धनम् (देवस्य) प्रकाशमानस्य (सवितुः) सकलजगदुत्पादकस्य परमेश्वरस्य (इयानाः) अधीयमानाः (पिता) जनक इव (च) (तत्) (नः) अस्मभ्यम् (महान्) पूजनीयः सर्वेभ्यो महान् (यजत्रः) सङ्गन्तव्यो ध्येयः (विश्वे) सर्वे (देवाः) विद्वांसः (समनसः) समानं मनोऽन्तःकरणं येषां ते (जुषन्त) सेवन्ताम् ॥३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यथा विद्वांसोऽस्यामीश्वरकृतसृष्टौ विद्यापुरुषार्थविद्वत्सेवाद्यैः सर्वाणि सुखानि लभन्ते तथा भवन्तो लभन्तां सर्वे मिलित्वा पितृवत्पालकं परमात्मानं सततमुपासीरन्निति ॥३॥ अत्र विश्वेदेवगुणकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति द्विपञ्चाशत्तमं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top