साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 61/ मन्त्र 1
उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान्। अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥१॥
स्वर सहित पद पाठउत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् । अ॒भि । यः । विश्वा॑ । भुव॑नानि । च॒ष्टे॒ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥
स्वर रहित मन्त्र
उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान्। अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥१॥
स्वर रहित पद पाठउत्। वाम्। चक्षुः। वरुणा। सुऽप्रतीकम्। देवयोः। एति। सूर्यः। ततन्वान्। अभि। यः। विश्वा। भुवनानि। चष्टे। सः। मन्युम्। मर्त्येषु। आ। चिकेत ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 61; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 3; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 3; मन्त्र » 1
विषयः - अथाध्यापकोपदेशकौ कीदृशौ भवेतामित्याह ॥
अन्वयः - हे वरुणा देवयोर्वां यत्सुप्रतीकं चक्षुस्ततन्वान् सूर्यइवोदेति यो मनुष्यो विश्वा भुवनान्यभि चष्टे स मर्त्येषु मन्युमा चिकेत तथा युवां कुरुतम् ॥१॥
पदार्थः -
(उत्) (वाम्) युवयोः (चक्षुः) चष्टेऽनेन तत् (वरुणा) वरौ (सुप्रतीकम्) सुष्ठु रूपादिप्रतीतिकरम् (देवयोः) विदुषोः (एति) (सूर्यः) सवितृमण्डलम् (ततन्वान्) विस्तीर्णः (अभि) (यः) (विश्वा) सर्वाणि (भुवनानि) (चष्टे) जानाति (सः) (मन्युम्) क्रोधम् (मर्त्येषु) मनुष्येषु (आ) समन्तात् (चिकेत) विजानीयात् ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः ! यथा सूर्यस्सर्वान् लोकान् प्रकाशयति तथाऽध्यापकोपदेशकौ सर्वेषामात्मनः प्रकाशयतः ॥१॥
इस भाष्य को एडिट करें