Loading...
ऋग्वेद मण्डल - 7 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 12
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि। विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१२॥

    स्वर सहित पद पाठ

    इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि। विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥१२॥

    स्वर रहित पद पाठ

    इयम्। देव। पुरःऽहितिः। युवऽभ्याम्। यज्ञेषु। मित्रावरुणौ। अकारि। विश्वानि। दुःऽगा। पिपृतम्। तिरः। नः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥१२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 12
    अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 6

    अन्वयः - हे मित्रावरुणौ देवा ! युवभ्यां यज्ञेष्वियं पुरोहितिरकारि युवां नो विश्वानि तिरस्कृत्य पिपृतम्, हे विद्वांसो ! यूयं स्वस्तिभिर्नस्सर्वान् मनुष्यान् सदा पात ॥१२॥

    पदार्थः -
    (इयम्) (देवा) दातारौ (पुरोहितिः) पुरस्ताद्धिता क्रिया (युवभ्याम्) (यज्ञेषु) विद्वत्सत्कारादिषु (मित्रावरुणौ) प्राणोदानवदध्यापकोपदेशकौ (अकारि) क्रियते (विश्वानि) सर्वाणि (दुर्गा) दुःखेन गन्तुं योग्यानि (पिपृतम्) पूरयतम् (तिरः) तिरस्क्रियायाम् (नः) अस्मान् (यूयम्) (पात) (स्वस्तिभिः) (सदा) (नः) ॥१२॥

    भावार्थः - हे अध्यापकोपदेशकौ यथा भवन्तौ सर्वेषां हितं कुर्यातां तथाऽस्मत् दुर्व्यसनानि दूरीकृत्य सर्वदाऽस्मान् वर्धयतमिति ॥१२॥ अत्र सूर्यादिदृष्टान्तैर्विद्वद्गुणकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षष्टितमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top