ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 11
यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः। सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११॥
स्वर सहित पद पाठयः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥
स्वर रहित मन्त्र
यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः। सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥
स्वर रहित पद पाठयः। ब्रह्मणे। सुऽमतिम्। आऽयजाते। वाजस्य। सातौ। परमस्य। रायः। सीक्षन्त। मन्युम्। मघऽवानः। अर्यः। उरु। क्षयाय। चक्रिरे। सुऽधातु ॥११॥
ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 11
अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 5
विषयः - पुनर्विद्वांसः किं कुर्युरित्याह ॥
अन्वयः - हे मनुष्या ! यः परमस्य वाजस्य रायः सातौ ब्रह्मणे सुमतिमा यजाते ये मघवानोऽर्यः मन्युं सीक्षन्त क्षयायोरु सुधातु चक्रिरे त एव श्रीमन्तो जायन्ते ॥११॥
पदार्थः -
(यः) (ब्रह्मणे) धनाय परमेश्वराय वा (सुमतिम्) शोभनां प्रज्ञाम् (आयजते) समन्ताद्यजेत सङ्गच्छेत (वाजस्य) विज्ञानस्य (सातौ) संविभागे (परमस्य) श्रेष्ठस्य (रायः) धनस्य (सीक्षन्त) सम्बध्नन्ति (मन्युम्) क्रोधम् (मघवानः) परमधनयुक्ताः (अर्यः) यथावज्ज्ञातारः (उरु) बहु (क्षयाय) निवासाय (चक्रिरे) कुर्वन्ति (सुधातु) शोभना धातवो यस्मिन् गृहे ॥११॥
भावार्थः - ये मनुष्या ईश्वरविज्ञानायोत्तमधनलाभाय श्रेष्ठाय गृहाय क्रोधादिदोषान् विहाय प्रयतन्ते ते सर्वसुखा जायन्ते ॥११॥
इस भाष्य को एडिट करें