ऋग्वेद - मण्डल 7/ सूक्त 9/ मन्त्र 5
अग्ने॑ या॒हि दू॒त्यं१॒॑ मा रि॑षण्यो दे॒वाँ अच्छा॑ ब्रह्म॒कृता॑ ग॒णेन॑। सर॑स्वतीं म॒रुतो॑ अ॒श्विना॒पो यक्षि॑ दे॒वान् र॑त्न॒धेया॑य॒ विश्वा॑न् ॥५॥
स्वर सहित पद पाठअग्ने॑ । या॒हि । दू॒त्य॑म् । मा । रि॒ष॒ण्यः॒ । दे॒वाम् । अच्छ॑ । ब्र॒ह्म॒ऽकृता॑ । ग॒णेन॑ । सर॑स्वतीम् । म॒रुतः॑ । अ॒श्विना॑ । अ॒पः । यक्षि॑ । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥
स्वर रहित मन्त्र
अग्ने याहि दूत्यं१ मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन। सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥५॥
स्वर रहित पद पाठअग्ने। याहि। दूत्यम्। मा। रिषण्यः। देवाम्। अच्छ। ब्रह्मऽकृता। गणेन। सरस्वतीम्। मरुतः। अश्विना। अपः। यक्षि। देवान्। रत्नऽधेयाय। विश्वान् ॥५॥
ऋग्वेद - मण्डल » 7; सूक्त » 9; मन्त्र » 5
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 5
अष्टक » 5; अध्याय » 2; वर्ग » 12; मन्त्र » 5
विषयः - पुनः के विद्वांसः सङ्गन्तव्याः सन्तीत्याह ॥
अन्वयः - हे अग्ने ! त्वं दूत्यं याहि देवान् मा रिषण्यो ब्रह्मकृता गणेन रत्नधेयाय सरस्वतीं मरुतोऽश्विनाऽपो विश्वान् देवान् यतोऽच्छा यक्षि तस्मात् सत्कर्त्तव्योऽसि ॥५॥
पदार्थः -
(अग्ने) वह्निरिव कार्य्यसाधक (याहि) (दूत्यम्) दूतस्य कर्म (मा) निषेधे (रिषण्यः) हिंस्याः (देवान्) विदुषश्शुभान् गुणान् वा (अच्छ) सम्यक्। अत्र संहितायामिति दीर्घः। (ब्रह्मकृता) येन ब्रह्म धनमन्नं वा करोति तेन (गणेन) समूहेन (सरस्वतीम्) विद्यासुशिक्षायुक्तां वाचम् (मरुतः) मनुष्यान् (अश्विना) अध्यापकोपदेशकौ (अपः) कर्माणि (यक्षि) सङ्गच्छसे (देवान्) विदुषः (रत्नधेयाय) रत्नानि धीयन्ते यस्मिँस्तस्मै (विश्वान्) समग्रान् ॥५॥
भावार्थः - हे मनुष्या ! यथाऽग्निना दूतेन विद्वांसो बहूनि कार्याणि साध्नुवन्ति तथा कार्यसिद्धिं कृत्वा कञ्चन मा हिंसत पदार्थविद्यया धनेन धान्येन वा कोशान् प्रपूर्य्य सर्वान् सुखयत ॥५॥
इस भाष्य को एडिट करें