Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 38/ मन्त्र 1
सूक्त - अथर्वा
देवता - गुल्गुलुः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते। यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते ॥
स्वर सहित पद पाठन। तम्। यक्ष्माः॑। अरु॑न्धते। न। ए॒न॒म्। श॒पथः॑। अ॒श्नु॒ते॒। यम्। भे॒ष॒जस्य॑। गु॒ल्गु॒लोः। सु॒र॒भिः। ग॒न्धः। अ॒श्नु॒ते ॥३८.१॥
स्वर रहित मन्त्र
न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते। यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥
स्वर रहित पद पाठन। तम्। यक्ष्माः। अरुन्धते। न। एनम्। शपथः। अश्नुते। यम्। भेषजस्य। गुल्गुलोः। सुरभिः। गन्धः। अश्नुते ॥३८.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 38; मन्त्र » 1
विषय - रोग नाश करने का उपदेश।
पदार्थ -
(न) न तो (तम्) उस [पुरुष] को (यक्ष्माः) राजरोग (अरुन्धते=आरुन्धते) रोकते हैं, और (न) (एनम्) उसको (शपथः) शाप [क्रोध वचन] (अश्नुते) व्यापता है। (यम्) जिस [पुरुष] को (गुल्गुलोः) गुल्गुलु [गुग्गुल] (भेषजस्य) औषध का (सुरभिः) सुगन्धित (गन्धः) गन्ध (अश्नुते) व्यापता है ॥१॥
भावार्थ - जिस घर में गुग्गुल आदि सुगन्धित द्रव्यों का गन्ध किया जाता है, वहाँ रोग नहीं होता ॥१॥
टिप्पणी -
(गुग्गुलु) शब्द पहिले आ चुका है-अ०२।३६।७॥१−(न) निषेधे (तम्) पुरुषम् (यक्ष्माः) राजरोगाः (अरुन्धते) छान्दसो ह्रस्वः। आरुन्धते समन्ताद् रोधं कुर्वन्ति (न) (एनम्) (शपथः) शापः। क्रोधवचनम् (अश्नुते) व्याप्नोति (यम्) पुरुषम् (भेषजस्य) औषधस्य (गुल्गुलोः) अ०२।३६।७। गुड रक्षणे-क्विप्+गुड रक्षणे-कु, डस्य लत्वम्। गुड्यते रक्ष्यतेऽस्मादिति गुड्-रोगः, तस्माद् गुडति रक्षतीति गुल्गुलुः। गुल्गुलुरेव गुग्गुलुः। सुगन्धौषधविशेषस्तस्यौषधस्य (सुरभिः) सुगन्धितः (गन्धः) घ्राणग्राह्यो गुणः (अश्नुते) व्याप्नोति ॥