अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 2
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः। दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥
स्वर सहित पद पाठक: । त्वा॒ । स॒त्य: । मदा॑नाम् । मंहि॑ष्ठ: । म॒त्स॒त् । अन्ध॑स: ॥ दृ॒ह्ला । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥१२४.२॥
स्वर रहित मन्त्र
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु ॥
स्वर रहित पद पाठक: । त्वा । सत्य: । मदानाम् । मंहिष्ठ: । मत्सत् । अन्धस: ॥ दृह्ला । चित् । आऽरुजे । वसु ॥१२४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 2
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(कः) कमनीय वा आगे बढ़ता हुआ, वा सुख देनेवाला (सत्यः) सत्यशीलवाला, (मदानाम्) आनन्दों और (अन्धसः) अन्न का (मंहिष्ठः) महादानी राजा (दृढा) दृढ़ (वसु) धनों को (चित्) अवश्य (आरुजे) खोल देने के लिये (त्वा) तुझे [प्रजा जन] को (मत्सत्) तृप्त करे ॥२॥
भावार्थ - सत्यशील राजा सुनीति से प्रजा को प्रसन्न रखकर धन-धान्य को बढ़ावे ॥२॥
टिप्पणी -
२−(कः) म० १। कमनीयः। क्रमणशीलः। सुखप्रदः (त्वा) त्वां प्रजाजनम् (सत्यः) सत्सु साधुः (मदानाम्) आनन्दानाम् (मंहिष्ठः) अ० २०।१।१। दातृतमः (मत्सत्) आनन्दयेत् (अन्धसः) अन्नस्य (दृढा) दृढानि (चित्) अवश्यम् (आरुजे) दृशे विख्ये च। पा० ३।४।११। आ+रुजो भङ्गे-केन् तुमर्थे। समन्ताद् भङ्क्तुम्। प्रकाशयितुम् (वसु) वसूनि। धनानि ॥