Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 41/ मन्त्र 2
इ॒च्छनश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम्। तद्वि॑दच्छर्य॒णाव॑ति ॥
स्वर सहित पद पाठइ॒च्छन् । अश्व॑स्य । यत् । शिर॑: । पर्व॑तेषु । अप॑ऽश्रितम् ॥ तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥४१.२॥
स्वर रहित मन्त्र
इच्छनश्वस्य यच्छिरः पर्वतेष्वपश्रितम्। तद्विदच्छर्यणावति ॥
स्वर रहित पद पाठइच्छन् । अश्वस्य । यत् । शिर: । पर्वतेषु । अपऽश्रितम् ॥ तत् । विदत् । शर्यणाऽवति ॥४१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 41; मन्त्र » 2
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(अश्वस्य) काम में व्यापनेवाले बलवान् पुरुष का (यत्) जो (शिरः) शिर [मस्तक वा विचारसामर्थ्य] (पर्वतेषु) मेघों [के समान उपकारी मनुष्यों] में (अपश्रितम्) आश्रित है, (तत्) उस [विचारसामर्थ्य] को (इच्छन्) चाहते हुए पुरुष ने (शर्यणावति) तीर चलाने के स्थान संग्राम में (विदत्) पाया है ॥२॥
भावार्थ - जो पुरुष विद्वानों के समान अपना विचारसामर्थ्य बढ़ाना चाहे, वह परिश्रम के साथ ऐसा प्रयत्न करे, जैसे शूर सेनापति सङ्ग्राम में प्रयत्न करता है ॥२॥
टिप्पणी -
२−(इच्छन्) कामयमानः (अश्वस्य) कर्मसु व्यापकस्य बलवतः पुरुषस्य (यत्) (शिरः) मस्तकसामर्थ्यम्। विचारशक्तिम् (पर्वतेषु) मेघेषु। मेघतुल्यसर्वोपकारिषु मनुष्येषु (अपश्रितम्) आसेवितम् (तत्) मस्तकसामर्थ्यम् (विदत्) अविदत्। प्राप्तवान् (शर्यणावति) मध्वादिभ्यश्च। पा० ४।२।८६। शर्यणा-मतुप्, शरयाणशब्दस्य शर्याण, शर्यणा इति रूपद्वयं पृषोदरादित्वात् शराणां तीराणां यानेन गमनेन युक्ते सङ्ग्रामे ॥