अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 1
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑। सु॑न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः। सु॑न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥
स्वर सहित पद पाठव॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णस: । सु॒न्वा॒न: । हि । स्म॒ । यज॑ति । अव॑ । द्विष॑: । दे॒वाना॑म् । अव॑ । द्विष॑: । सु॒न्वा॒न: । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑त: ॥ सु॒न्वा॒नाय॑ । इन्द्र॑: । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥६७.१॥
स्वर रहित मन्त्र
वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः। सुन्वान इत्सिषासति सहस्रा वाज्यवृतः। सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥
स्वर रहित पद पाठवनोति । हि । सुन्वन् । क्षयम् । परीणस: । सुन्वान: । हि । स्म । यजति । अव । द्विष: । देवानाम् । अव । द्विष: । सुन्वान: । इत् । सिसासति । सहस्रा । वाजी । अवृत: ॥ सुन्वानाय । इन्द्र: । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥६७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 1
विषय - मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
(सुन्वन्) तत्त्व निकालता हुआ पुरुष (हि) ही (परीणसः) पाने योग्य धन के (क्षयम्) घर को (वनोति) सेवता है [भोगता है], (सुन्वानः) तत्त्व निकालता हुआ पुरुष (हि) ही (स्म) अवश्य (द्विषः) वैरियों को (अव यजति) दूर करता है, (देवानाम्) विद्वानों के (द्विषः) वैरियों को (अव) दूर [करता है], (सुन्वानः) तत्त्व रस निकालता हुआ पुरुष (इत्) ही (वाजी) पराक्रमी और (अवृतः) बे-रोक होकर (सहस्रा) सैकड़ों सुख (सिषासति) देना चाहता है। (सुन्वानाय) तत्त्व निकालते हुए पुरुष को (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमात्मा] (आभुवम्) सब ओर से पाने योग्य (रयिम्) धन (ददाति) देता है, (आभुवम्) सब ओर से रहने योग्य [धन] (ददाति) देता है ॥१॥
भावार्थ - जो मनुष्य विद्याओं का सार ग्रहण करके शत्रुओं को मारता है, वही वीर सबको सुख देता और परमात्मा का प्रीतिपात्र होता है ॥१॥
टिप्पणी -
यह मन्त्र ऋग्वेद में है-१।१३३।७ ॥ १−(वनोति) छान्दसं परस्मैपदम्। वनुते। सेवते (हि) निश्चयेन (सुन्वन्) षुञ् अभिषवे-शतृ। तत्त्वरसं निष्पादयन् (क्षयम्) गृहम् (परीणसः) परि+णस कौटिल्ये गतौ प्राप्तौ च-क्विप्। नसतेर्गतिकर्मा-निघ० ३।१४। नसतिराप्नोतिकर्मा वा नमतिकर्मा वा-निरु० ७।१७। परितः प्रापणीयस्य धनस्य (सुन्वानः) षुञ् अभिषवे-शानच् विद्यानां तत्त्वरसं निष्पादयन् (हि) एव (स्म) अवश्यम् (अव यजति) अवयजनं दूरीकरणम्-दयानन्दभाष्ये, यजु० ८।१३। दूरीकरोति (द्विषः) द्वेष्टॄन्। शत्रून् (देवानाम्) विदुषाम् (अव) दूरे (द्विषः) (सुन्वानः) (इत्) एव (सिषासति) षणु दाने-सन्। सनितुं दातुमिच्छति (सहस्रा) सहस्राणि सुखानि (वाजी) पराक्रमी (अवृतः) अनिवारितः (सुन्वानाय) तत्त्वरसं निष्पादयते (इन्द्रः) परमैश्वर्यवान् परमात्मा (ददाति) प्रयच्छति (आभुवम्) आङ्+भू प्राप्तौ-घञर्थे क प्रत्ययः। समन्तात् प्रापणीयम् (रयिम्) धनम् (ददाति) (आभुवम्) भू सत्तायाम्-घञर्थे क। सर्वतो भवनशीलम् ॥