Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 75/ मन्त्र 3
आदित्ते॑ अ॒स्य वी॒र्यस्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखिय॒तो यदावि॑थ। च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे। ते अ॒न्याम॑न्यां न॒द्यं सनिष्णत॒ श्रव॒स्यन्तः॑ सनिष्णत ॥
स्वर सहित पद पाठआत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिज॑: । यत् । आवि॑थ: । स॒खि॒ऽय॒त: । यत् । आवि॑थ ॥ च॒कर्थ॑ । का॒रम् । ए॒भ्य॒: । पृत॑नासु । प्रऽव॑न्तवे ॥ ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । अ॒व॒स्यन्त॑: । स॒नि॒ष्ण॒त॒ ॥७५.३॥
स्वर रहित मन्त्र
आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखियतो यदाविथ। चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे। ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
स्वर रहित पद पाठआत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिज: । यत् । आविथ: । सखिऽयत: । यत् । आविथ ॥ चकर्थ । कारम् । एभ्य: । पृतनासु । प्रऽवन्तवे ॥ ते । अन्याम्ऽअन्याम् । नद्यम् । सनिष्णत । अवस्यन्त: । सनिष्णत ॥७५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 75; मन्त्र » 3
विषय - परमेश्वर की उपासना का उपदेश।
पदार्थ -
(वृषन्) हे महाबली ! [परमेश्वर] (आत्) इसलिये (इत्) ही (ते) तेरे (अस्य) उस (वीर्यस्य) सामर्थ्य को (चर्किरन्) उन्होंने [मनुष्यों ने] (बार-बार जाना है, (यत्) जिस [सामर्थ्य] से (मदेषु) आनन्दों के बीच (उशिजः) शुभ गुण चाहनेवाले बुद्धिमानों को (आविथ) तूने बचाया है, (यत्) जिस [सामर्थ्य] से (सखियतः) तुझे मित्र के समान समझते हुए लोगों को (आविथ) तूने बचाया है। और (एभ्यः) इन [लोगों] के लिये (पृतनासु) मनुष्यों में (प्रवन्तवे) सेवन करने को (कारम्) यत्न (चकर्थ) तूने किया है, (श्रवस्यन्तः) कीर्ति चाहनेवाले (ते) वे (अन्यामन्याम्) अलग-अलग (नद्यम्) पूजने योग्य क्रिया को (सनिष्णत) सेवन करें, (सनिष्णत) सेवन करें ॥३॥
भावार्थ - विद्वान् लोग परमात्मा के सामर्थ्य का अनेक प्रकार अनुभव करके आपस में मिलकर तथा पृथक्-पृथक् भी शुभ गुणों की प्राप्ति से सामर्थ्य बढ़ावें ॥३॥
टिप्पणी -
३−(आत्) अतः (इत्) एव (ते) तव (अस्य) द्वितीयार्थे षष्ठी। तत्। वक्ष्यमाणम् (वीर्यस्य) सामर्थ्यम्, (चर्किरन्) कॄ विक्षेपे हिसायां विज्ञाने च, यङ्लुगन्तात् लङ्, अडभावः। ज्ञातवन्तः (मदेषु) हर्षेषु (वृषन्) बलिष्ठ। परमात्मन् (उशिजः) अ० २०।११।४। शुभगुणान् कामयमानान् मेधाविनः (यत्) येन वीर्येण (आविथ) रक्षितवानसि (सखियतः) उपमानादाचारे। पा० ३।१।१०। सखि-क्यच्, शतृ। न च्छन्दस्यपुत्रस्य। पा० ७।४।३। इति दीर्घनिषेधः त्वां सखायमिवाचरतः पुरुषान् (यत्) येन (आविथ) रक्षितवानसि (चकर्थ) कृतवानसि (कारम्) करोतः-घञ्। यत्नः (एभ्यः) पूर्वोक्तेभ्यः (पृतनासु) वीपतिभ्यां तनन्। उ० ३।१। पृङ् व्यायामे-तनन्, कित्, टाप्। पृतनाः, मनुष्यनाम-निघ० २।३। मनुष्येषु (प्रवन्तवे) तुमर्थे तवेन्। प्रकर्षेण वनितुं सेवितुम्। (ते) पूर्वोक्तः (अन्यामन्याम्) भिन्नां भिन्नाम् (नद्यम्) णद अव्यक्ते शब्दे स्तुतौ च-पचाद्यच् ङीप्। नदतिरर्चतिकर्मा-निघ० ३।१४। नद स्तोतृनाम-निघ० ३।१६। नदीम्। पूजनीयां क्रियाम् (सनिष्णत) षण सम्भक्तौ-लेट्। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप् इट् श्नाप्रत्ययश्च। आत्मनेपदेष्वनतः। पा० ७।१।। इति झस्य अदादेशे। श्नाभ्यस्तयोरातः। पा० ६।४।११२। इत्याकारलोपः। टेरेत्वाभावः। संभजेयुः। सेवन्ताम् (श्रवस्यन्तः) श्रवस्-क्यच्, शतृ। कीर्तिमिच्छन्तः (सनिष्णत) सेवताम् ॥