Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 3
त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म्। अ॑श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
स्वर सहित पद पाठत्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒ज॒: । अ॒ध॒राच॑: । अह॑न् । अहि॑म् ॥ अ॒श॒त्रु: । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒का: । अधि॑ । धन्व॑ऽसु ॥९५.३॥
स्वर रहित मन्त्र
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम्। अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
स्वर रहित पद पाठत्वम् । सिन्धून् । अव । असृज: । अधराच: । अहन् । अहिम् ॥ अशत्रु: । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 3
विषय - राजा के कर्तव्य का उपदेश।
पदार्थ -
(त्वम्) तूने (अधराचः) नीचे को बहनेवाले (सिन्धून्) नदी-नालों को (अ असृजः) छोड़ दिया है, (अहिम्) पारनेवाले विघ्न को (अहन्) तूने मारा है। (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] तू (अशत्रुः) निर्वैरी (जज्ञिषे) हो गया है, (विश्वम्) सब (वार्यम्) जल में होनेवाले [अन्न आदि] को (पुष्यसि) तू पुष्ट करता है, (तम्) उस (त्वाम्) तुझसे (परि ष्वजामहे) हम मिलते हैं। (अन्यकेषाम्) दूसरे खोटे लोगों की [मन्त्र २] ॥३॥
भावार्थ - राजा पहाड़ आदि जल स्थानों से नदी-नाले निकालकर खेती आदि उद्यम को बढ़ावें, जिससे प्रजागण उससे प्रीति करें ॥३॥
टिप्पणी -
३−(त्वम्) (सिन्धून्) स्यन्दनशीलान् जलपूरान्। नदीः कुल्याः (अव असृजः) अवसृष्टवान् निर्गमितवानसि (अधराचः) अधोमुखमञ्चतो गन्तॄन् (अहन्) हतवानसि (अहिम्) आहन्तारं विघ्नम् (अशत्रुः) शत्रुरहितः (इन्द्र) महाप्रतापिन् राजन् (जज्ञिषे) जनेर्लिट्। प्रादुर्बभूविथ (विश्वम्) सर्वम् (पुष्यसि) वर्धयसि (वार्यम्) वार्-यत्। वारि जले भवमुत्पन्नमन्नादिकम् (तम्) तादृशम् (त्वा) त्वाम् (परि) परितः (स्वजामहे) ष्वञ्ज आलिङ्गने। आलिङ्गामः। संगच्छामहे। अन्यत् पूर्ववत् ॥