अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ॥
स्वर सहित पद पाठवि । आ॒ऽकू॒त॒य॒: । ए॒षा॒म् । इ॒त॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मु॒ह्य॒त॒ । अथो॒ इति॑ । यत् । अ॒द्य । ए॒षा॒म् । हृ॒दि । तत् । ए॒षा॒म् । परि॑ । नि: । ज॒हि॒ ॥२.४॥
स्वर रहित मन्त्र
व्याकूतय एषामिताथो चित्तानि मुह्यत। अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥
स्वर रहित पद पाठवि । आऽकूतय: । एषाम् । इत । अथो इति । चित्तानि । मुह्यत । अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । नि: । जहि ॥२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 4
विषय - सेनापति के कर्तव्य का उपदेश।
पदार्थ -
हे (एषाम्) इन [शत्रुओं] के (आकूतयः) विचारो ! (वि) उलट-पलट होकर (इत) चले जाओ, (अथो) और हे (चित्तानि) इनके चित्तो ! (मुह्यत) व्याकुल हो जाओ। (अथो) और [हे राजन्] (यत्) जो कुछ [मनोरथ] (अद्य) अब (एषाम्) इनके (हृदि) हृदय में है, (एषाम्) इनके (तत्) उस [मनोरथ] को (परि) सर्वथा (निर्जहि) नाश कर दे ॥४॥
भावार्थ - नीतिकुशल राजा दुराचारियों में परस्पर मतभेद करा दे और उनका मनोरथ सिद्ध न होने दे ॥४॥
टिप्पणी -
४−(आकूतयः)। म० ३। हे सङ्कल्पाः। मनोरथाः। (एषाम्)। शत्रूणाम्। (वि, इत्)। विरोधेन गच्छत। (अथो)। अपि च। (चित्तानि)। मनांसि। (मुह्यत)। व्याकुलानि भवत। (यत्)। प्रयोजनम्। (अद्य)। इदानीम्। (हृदि)। मनसि। (तत्)। प्रयोजनम्। (परि)। परितः। सर्वतः। (निः)। नितराम्। (जहि)। नाशय ॥