अथर्ववेद - काण्ड 3/ सूक्त 4/ मन्त्र 7
सूक्त - अथर्वा
देवता - सोमः, पर्णमणिः
छन्दः - पुरोऽनुष्टुप्त्रिष्टुप्
सूक्तम् - राजा ओर राजकृत सूक्त
प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ॥
स्वर सहित पद पाठप॒थ्या᳡: । रे॒वती॑: । ब॒हु॒ऽधा । विऽरू॑पा: । सर्वा॑: । स॒म्ऽगत्य॑ । वरी॑य: । ते॒ । अ॒क्र॒न् । ता: । त्वा॒ । सर्वा॑: । स॒म्ऽवि॒दा॒ना: । ह्व॒य॒न्तु॒ । द॒श॒मीम् । उ॒ग्र: । सु॒ऽमना॑: । व॒श॒ । इ॒ह ॥४.७॥
स्वर रहित मन्त्र
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन्। तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥
स्वर रहित पद पाठपथ्या: । रेवती: । बहुऽधा । विऽरूपा: । सर्वा: । सम्ऽगत्य । वरीय: । ते । अक्रन् । ता: । त्वा । सर्वा: । सम्ऽविदाना: । ह्वयन्तु । दशमीम् । उग्र: । सुऽमना: । वश । इह ॥४.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 4; मन्त्र » 7
विषय - राजतिलक का उत्सव।
पदार्थ -
(पथ्याः) मार्ग पर चलनेवाली, (रेवतीः=०−त्यः) धनवाली, (बहुधा) प्रायः (विरूपाः) विविध आकार वा स्वभाववाली (सर्वाः) सब [प्रजाओं] ने (संगत्य) मिलकर (ते) तेरेलिये (वरीयः) अधिक विस्तीर्ण वा श्रेष्ठ [पद] (अक्रन्) किया है। (ताः सर्वाः) वे सब [प्रजायें] (संविदानाः) एकमत होकर (त्वा) तुझको (ह्वयन्तु) पुकारें। (उग्रः) तेजस्वी और (सुमनाः) प्रसन्न चित्त तू (इह) इस [राज्य] में (दशमीम्) दसवी [नव्वे वर्ष से ऊपर] अवस्था को (दश) वश में कर ॥७॥
भावार्थ - सब प्रजागण मिलकर और सुमार्ग में चलकर राजा को सिंहासन पर बिठलावें और अपना रक्षक बनावें। और वह राजा भी इस प्रकार से न्याय और आनन्द करता हुआ नीरोग पूर्ण आयु भोगे ॥७॥
टिप्पणी -
७−(पथ्याः)। धर्मपथ्यर्थन्यायादनपेते। पा० ४।४।९२। इति पथिन्-यत्। पथोऽनपेताः। सुमार्गगामिन्यः। (रेवतीः)। रयेर्मतौ बहुलम्। वा० पा० ६।१।३७। इति रयि-मतुप्, संप्रसारणं गुणश्च। छन्दसीरः। पा० ८।२।१५। इति मतुपो वत्वम्। ङीप्। विभक्तौ पूर्वसवर्णदीर्घः। रेवत्यः। धनवत्यः (बहुधा)। प्रायः। (विरूपाः)। विविधाकारा नानास्वभावाः। (सर्वाः)। अखिलाः प्रजाः। (संगत्य)। संभूय। (वरीयः)। प्रियस्थिर०। पा० ६।४।५७। इति उरु+ईयसुनि वरादेशः। यद्वा, वर+ईयसुन्। उरुतरं वरतरं पदं सिंहासनं वा। (ते)। तुभ्यम्। (अक्रन्)। करोतेर्लुङि च्लेर्लुक्। कृतवत्यः। (संविदानाः)। मं० ६। संगच्छमानाः। ऐकमत्यं प्राप्ताः सत्यः। (ह्वयन्तु)। आह्वयन्तु रक्षार्थम्। (दशमीम्)। नवतिसंवत्सरोर्ध्वभाविनीं चरमावस्थाम्। (उग्रः)। पराक्रमी। (सुमनाः)। प्रसन्नचित्तः। दयालुः। (वश)। आयत्तीकुरु। (इह)। अस्मिन् राज्ये ॥