अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदा अनुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु। देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ॥
स्वर सहित पद पाठतत् । न॒: । तु॒रीष॑म् । अत्ऽभु॑तम् । पु॒रु॒ऽक्षु । देव॑ । त्व॒ष्ट॒: । रा॒य: । पोष॑म् । वि । स्य॒ । नाभि॑म् । अ॒स्य ॥२७.१०॥
स्वर रहित मन्त्र
तन्नस्तुरीपमद्भुतं पुरुक्षु। देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥
स्वर रहित पद पाठतत् । न: । तुरीषम् । अत्ऽभुतम् । पुरुऽक्षु । देव । त्वष्ट: । राय: । पोषम् । वि । स्य । नाभिम् । अस्य ॥२७.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 10
विषय - पुरुषार्थ का उपदेश।
पदार्थ -
(देव) हे व्यवहार में चतुर (त्वष्टः) सूक्ष्मदर्शी पुरुष ! (नः) हमारे लिये (तत्) वह (तुरीपम्) शीघ्र रक्षा करनेवाला, (अद्भुतम्) अद्भुत, (पुरुक्षु) बहुत अन्न और (रायः) धन की (पोषम्) पुष्टि (अस्य) इस [घर] के (नाभिम्) मध्यदेश में (वि ष्य) खोल दे ॥१०॥
भावार्थ - मनुष्य पुरुषार्थपूर्वक पुष्कल अन्न और धन से घरों को परिपूर्ण करके यथावत् पोषण करें ॥१०॥
टिप्पणी -
१०−(तत्) (नः) अस्मभ्यम् (तुरीपम्) तुरी−पम्। सर्वधातुभ्य इन्। उ० ४।११८। इति तुर वेगे−इनि, ङीप्+पा रक्षणे−क। तुर्या वेगेन रक्षकम्। तुरीपं पदनाम−निघ० ४।३। तुरीपं तूर्णापि−निरु० ६।२१। (अद्भुतम्) आश्चर्यवत् (पुरुक्षु) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति क्षि निवासगत्योः−कु, स च डित्। क्षु अन्ननाम−निघ० २।७। बह्वन्नम् (देव) हे व्यवहारकुशल (त्वष्टः) सूक्ष्मदर्शिन् (रायः) धनस्य (पोषम्) पुष्टिम् (वि ष्य) विमुञ्च। स्यतिरुपसृष्टो विमोचने−निरु० १।१७। (नाभिम्) मध्यदेशं प्रति (अस्य) गृहस्य ॥