Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 113/ मन्त्र 3
द्वा॑दश॒धा निहि॑तं त्रि॒तस्याप॑मृष्टं मनुष्यैन॒सानि॑। ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ॥
स्वर सहित पद पाठद्वा॒द॒श॒ऽधा । निऽहि॑तम् । त्रि॒तस्य॑ । अप॑ऽमृष्टम् । म॒नु॒ष्य॒ऽए॒न॒सानि॑ । तत॑: । यदि॑। त्वा॒। ग्राहि॑: । आ॒न॒शे । ताम् । ते॒ ।दे॒वा: । ब्रह्म॑णा । ना॒श॒य॒न्तु॒ ॥११३.३॥
स्वर रहित मन्त्र
द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि। ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥
स्वर रहित पद पाठद्वादशऽधा । निऽहितम् । त्रितस्य । अपऽमृष्टम् । मनुष्यऽएनसानि । तत: । यदि। त्वा। ग्राहि: । आनशे । ताम् । ते ।देवा: । ब्रह्मणा । नाशयन्तु ॥११३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 113; मन्त्र » 3
विषय - पाप शुद्ध करने का उपदेश।
पदार्थ -
(द्वादशधा) बारह [मन और बुद्धि सहित पाँच ज्ञानेन्द्रियों और पाँच कर्मेन्द्रियों] में (निहितम्=०−तानि) ठहरे हुए (मनुष्यैनसानि) मनुष्यों के पाप (त्रितस्य−त्रितेन) त्रित परमेश्वर करके [वेद द्वारा] (अपमृष्टम्=०−ष्टानि) शुद्ध किये गये हैं। (ततः) इस पर भी (यदि) जो... म० १ ॥३॥
भावार्थ - मनुष्य इन्द्रियों के विकार से उत्पन्न पापों को वेदज्ञान द्वारा विद्वानों के सत्सङ्ग से सर्वथा शोधकर सदा सुखी रहें ॥३॥ इत्येकादशोऽनुवाकः ॥
टिप्पणी -
३−(द्वादशधा) द्वादशसु मनोबुद्धिसहितेषु दशसु ज्ञानकर्मेन्द्रियेषु (निहितम्) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति बहुवचनस्यैकवचनम्। निहितानि। नितरां धृतानि। (त्रितस्य) तृतीयायाः षष्ठी। त्रितेन परमेश्वरेण (अपमृष्टम्) अपमृष्टानि। शोधितानि (मनुष्यैनसानि) अनसन्तान्नपुंसकाच्छन्दसि। पा० ५।४।१०३। इति टच्। मनुष्यपापानि। अन्यद् यथा−म० १ ॥