Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 91/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - आपः
छन्दः - अनुष्टुप्
सूक्तम् - यक्षमनाशन सूक्त
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
स्वर सहित पद पाठआप॑: । इत् । वै । ऊं॒ इति॑। भे॒ष॒जी: । आप॑: । अ॒मी॒व॒ऽचात॑नी: । आप॑: । विश्व॑स्य । भे॒ष॒जी: । ता: । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥९१.३॥
स्वर रहित मन्त्र
आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
स्वर रहित पद पाठआप: । इत् । वै । ऊं इति। भेषजी: । आप: । अमीवऽचातनी: । आप: । विश्वस्य । भेषजी: । ता: । ते । कृण्वन्तु । भेषजम् ॥९१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 91; मन्त्र » 3
विषय - आत्मिक दोष नाश करने का उपदेश।
पदार्थ -
(आपः) शुभकर्म वा जल (इत् वै उ) अवश्य ही (भेषजीः=०−ज्यः) भयनिवारक है, (आपः) शुभकर्म वा जल (अमीवचातनीः=०−न्यः) पीडानाशक है। (आपः) शुभ कर्म वा जल (विश्वस्य) सब के (भेषजीः) भयनिवारक है, (ताः) वे (ते) तेरा (भेषजम्) भयनिवारण (कृण्वन्तु) करें ॥३॥
भावार्थ - मनुष्य वेदविहित कर्मों को करके अपने आत्मिक, और शारीरिक दोष मिटावें, और जलचिकित्सा करके शारीरिक रोगों की निवृत्ति करें ॥३॥ यह मन्त्र कुछ भेद से आ चुका है−अ० ३।७।५ ॥
टिप्पणी -
३−(आपः) आप्नोतेर्ह्रस्वश्च उ० २।५८। इति आप्लृ व्याप्तौ−क्विप् अप्तृन्तृच्०। पा० ६।४।११। इत्युपधादीर्घः। अपः कर्मनाम−निघ० २।१। आप्यन्ते प्राप्यन्ते सुखदुःखानि याभिस्ता आपः कर्माणि−इति महीधरभाष्ये यजु० ४०।४। वेदविहितकर्माणि (इद् वा उ) इति सर्वेऽवधारणे (भेषजीः) अ० ३।७।५। भेषज्यः। भयनिवारकाः (अमीवचातनीः−रोगाणां नाशयित्र्यः (विश्वस्य) सर्वस्य (ताः) आपः (ते) तव (कृण्वन्तु) कुर्वन्तु (भेषजम्) रोगनिवर्तनम् ॥