Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 3
प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहञ्छत्रु॒होसि॑। यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥
स्वर सहित पद पाठप्राच्या॑: । दि॒श: । त्वम्। इ॒न्द्र॒ । अ॒सि॒ । राजा॑ । उ॒त । उदी॑च्या: । दि॒श: । वृ॒त्र॒ऽह॒न् । श॒त्रु॒ऽह: । अ॒सि॒ । यत्र॑ । यन्ति॑ । स्रो॒त्या: । तत् । जि॒तम् । ते॒ । द॒क्षि॒ण॒त: । वृ॒ष॒भ: ।ए॒षि॒ । हव्य॑: ॥९८.३॥
स्वर रहित मन्त्र
प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहञ्छत्रुहोसि। यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥
स्वर रहित पद पाठप्राच्या: । दिश: । त्वम्। इन्द्र । असि । राजा । उत । उदीच्या: । दिश: । वृत्रऽहन् । शत्रुऽह: । असि । यत्र । यन्ति । स्रोत्या: । तत् । जितम् । ते । दक्षिणत: । वृषभ: ।एषि । हव्य: ॥९८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 3
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(इन्द्र) हे परमात्मन् ! (त्वम्) तू (प्राच्याः दिशः) पूर्व वा सन्मुखवाली दिशा का (उत) और (उदीच्याः दिशः) उत्तर वा बाईं दिशा का (राजा असि) राजा है, (वृत्रहन्) हे अन्धकारनाशक ! तू (शत्रुहः) हमारे शत्रुओं का नाश करनेवाला (असि) है। (यत्र) जिस स्थान में (स्रोत्याः) जलधारायें (यन्ति) चलती हैं (तत्) वह स्थान [समुद्र वा अन्तरिक्ष] (ते) तेरा (जितम्) जीता हुआ है, (वृषभः) महापराक्रमी, (हव्यः) आवाहनयोग्य तू (दक्षिणतः) हमारी दाहिनी ओर (एषि) पहुँचता है ॥३॥
भावार्थ - परमेश्वर सब स्थान और सब काल में सब का शासक है, जो मनुष्य उस पर विश्वास करते हैं, वह उनका सदा सहायक होता है ॥३॥
टिप्पणी -
३−(प्राच्याः) पूर्वस्याः। अभिमुखीभूताया (दिशः) दिशायाः (त्वम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (असि) (राजा) शासकः (उत) अपि च (उदीच्याः) उत्तरस्याः। वामभागभवाया (वृत्रहन्) हे अन्धकारनाशक (शत्रुहः) आशिषि हनः। पा० ३।२।४९। इति हन्तेर्डः। शत्रूणां हन्ता (यत्र) यस्मिन् स्थाने (यन्ति) प्रवहन्ति (स्रोत्याः) स्रोतसो विभाषा ड्यड्ड्यौ। पा० ४।४।११३। इति स्रोतस्−ड्य स्रोतसि भवाः। नद्यः−निघ० १।१३। जलधाराः (तत्) स्थानम्। समुद्रोऽन्तरिक्षं वा (जितम्) वशीकृतम् (ते) तव (दक्षिणतः) अ० ४।३२।७। दक्षिणभागे परमसहायकत्वेन (वृषभः) अ० ४।५।१। वृषु परमैश्वर्ये−अभच्। महापराक्रमी (एषि) गच्छसि (हव्यः) बहुलं छन्दसि पा० ६।१।३४। इति ह्वयतेः सम्प्रसारणे। अचो यत्। पा० ३।१।९७। इति यत्। आह्वातव्यः ॥