Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 116/ मन्त्र 2
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः
छन्दः - एकावसाना द्विपदार्च्यनुष्टुप्
सूक्तम् - ज्वरनाशन सूक्त
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म॒भ्येत्वव्र॒तः ॥
स्वर सहित पद पाठय: । अ॒न्ये॒द्यु॒: । उ॒भ॒य॒ऽद्यु: । अ॒भि॒ऽएति॑ । इ॒मम । म॒ण्डूक॑म् । अ॒भि । ए॒तु॒ । अ॒व्र॒त: ॥१२१.२॥
स्वर रहित मन्त्र
यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकमभ्येत्वव्रतः ॥
स्वर रहित पद पाठय: । अन्येद्यु: । उभयऽद्यु: । अभिऽएति । इमम । मण्डूकम् । अभि । एतु । अव्रत: ॥१२१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 116; मन्त्र » 2
विषय - रोगनिवारण का उपदेश।
पदार्थ -
(यः) जो (अन्येद्युः) एकान्तरा और (उभयद्युः) दो अन्तरा [ज्वरसमान] (अभ्येति) चढ़ता है, (अव्रतः) नियमहीन वह [रोग] (इमम्) इस (मण्डूकम्) मेंढक [समान टर्रानेवाले आत्मश्लाघी पुरुष] को (अभि एतु) चढ़े [ऐसे ज्वरसमान शत्रु पर वज्र होवे-म० १] ॥२॥
भावार्थ - जैसे ज्वर आदि रोग कुनियमियों को सताता है, वैसे धर्मात्माओं के दुःखदायी शत्रु लोग दण्डनीय हैं ॥२॥
टिप्पणी -
२−(यः) ज्वरः (अन्येद्युः) सद्यःपरुत्परार्यैषमः०। पा० ५।३।२२। अन्य-एद्युस् प्रत्ययः। अन्यस्मिन्नहनि (उभयद्युः) द्युश्चोभयाद्वक्तव्यः। वा० पा० ५।३।२२। उभय−द्युः प्रत्ययः। उभयोर्दिनयोः, अतीतयोरिति शेषः (अभ्येति) अभिगच्छति (इमम्) प्राणिनम् (मण्डूकम्) अ० ४।१५।१२। भेकतुल्यशब्दायमानमात्मश्लाघिनं पुरुषम् (अभ्येतु) अभिगच्छतु (अव्रतः) अ० ६।२०।१। भ्रष्टनियमः ॥