अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अनुमतिः
छन्दः - अतिशाक्वरगर्भा जगती
सूक्तम् - अनुमति सूक्त
अनु॑मतिः॒ सर्व॑मि॒दं ब॑भूव॒ यत्तिष्ठ॑ति॒ चर॑ति॒ यदु॑ च॒ विश्व॒मेज॑ति। तस्या॑स्ते देवि सुम॒तौ स्या॒मानु॑मते॒ अनु॒ हि मंस॑से नः ॥
स्वर सहित पद पाठअनु॑ऽमति: । सर्व॑म् । इ॒दम् । ब॒भू॒व॒ । यत् । तिष्ठ॑ति । चर॑ति । यत् । ऊं॒ इति॑ । च॒ । विश्व॑म् । एज॑ति । तस्या॑: । ते॒ । दे॒वि॒ । सु॒ऽम॒तौ । स्या॒म॒ । अनु॑ऽमते । अनु॑ । हि । मंस॑से । न॒: ॥२१.६॥
स्वर रहित मन्त्र
अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति। तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥
स्वर रहित पद पाठअनुऽमति: । सर्वम् । इदम् । बभूव । यत् । तिष्ठति । चरति । यत् । ऊं इति । च । विश्वम् । एजति । तस्या: । ते । देवि । सुऽमतौ । स्याम । अनुऽमते । अनु । हि । मंससे । न: ॥२१.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 6
विषय - मनुष्यों के कर्त्तव्य का उपदेश।
पदार्थ -
(अनुमतिः) अनुमति [अनुकूल बुद्धि] (इदम्) इस (सर्वम्) सब में (बभूव) व्यापी है, (यत्) जो कुछ (तिष्ठति) खड़ा होता है, (चरति) चलता है, (च) और (विश्वम्) सब (यत् उ) जो कुछ भी (एजति) चेष्टा करता है [हाथ-पाँव चलाता है]। (देवि) हे देवी ! (तस्याः ते) उस तेरी (सुमतौ) सुमति [अनुग्रहबुद्धि] में (स्याम) हम रहें, (अनुमते) हे अनुमति ! तू (हि) ही (नः) हमें (अनु) अनुग्रह से (मंससे) जानती रहे ॥६॥
भावार्थ - जो मनुष्य प्रतिकूलता त्यागकर प्रत्येक कर्तव्य में अनुकूलता देवी का ध्यान रखते हैं, वे ही परमेश्वर के कृपापात्र होते हैं ॥६॥
टिप्पणी -
६−(अनुमतिः) म० १। अनुकूला बुद्धिः (सर्वम्) समस्तं जगत् (इदम्) दृश्यमानम् (बभूव) भू प्राप्तौ। प्राप (यत्) जगत् (तिष्ठति) स्थित्या वर्तते (चरति) गच्छति (यत्) (उ) अपि (च) (विश्वम्) सर्वम् (एजति) एजृ कम्पने। साहसेन चेष्टते (तस्याः) तादृश्याः (ते) तव (सुमतौ) अनुग्रहबुद्धौ (स्याम) भवेम (अनु) अनुग्रहेण (हि) अवश्यम् (मंससे) म० २। जानीय (नः) अस्मान् ॥