Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 3
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्। दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥
स्वर सहित पद पाठसु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रणी॑तिम् । दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गस: । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥७.१॥
स्वर रहित मन्त्र
सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम्। दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥
स्वर रहित पद पाठसुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रणीतिम् । दैवीम् । नावम् । सुऽअरित्राम् । अनागस: । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥७.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 3
विषय - वेदवाणी के गुणों का उपदेश।
पदार्थ -
(सुत्रामाणम्) अच्छे प्रकार रक्षा करने हारी, (पृथिवीम्) फैली हुई, (द्याम्) प्राप्तियोग्य, (अनेहसम्) अखण्डित, (सुशर्म्माणम्) अत्यन्त सुख देनेवाली, (सुप्रणीतिम्) बहुत सुन्दर नीतिवाली (अदितिम्) अदिति, अदीन वेदविद्यारूप, (दैवीम्) देवताओं, विद्वानों की बनाई हुई, (स्वरित्राम्) सुन्दर बल्लियोंवाली, (अस्रवन्तीम्) न चूनेवाली (नावम्) नाव पर (स्वस्तये) आनन्द के लिये (अनागसः) निर्दोष हम (आ रुहेम) चढ़ें ॥३॥
भावार्थ - जो मनुष्य अखण्ड वेदविद्या को प्राप्त होते हैं, वे संसार के विघ्नों से ऐसे पार होते हैं, जैसे विज्ञानी शिल्पी की बनाई नाव से बड़े समुद्र को पार कर जाते हैं ॥३॥ यह मन्त्र कुछ भेद से ऋग्वेद में है-म० १०।६३।१०, और यजु० २१।६ ॥
टिप्पणी -
३−(सुत्रामाणम्) सुरक्षित्रीम् (पृथिवीम्) अ० १।२।१। विस्तृताम् (द्याम्) गमेर्डोः। उ० २।६७। द्यु अभिगमने−डो। अभिगन्तव्याम् (अनेहसम्) नञि हन एह च। उ० ४।२२४। अ+हन-असि। एन एतेः-निरु० ११।२४। अहिंसनीयाम् (सुशर्म्माणम्) बहुसुखवतीम् (अदितिम्) अ० २।२८।४। अदीनां वेदवाचम्। अदितिः=वाक्-निघ० १।११। (सुप्रणीतिम्) म० २ (दैवीम्) देव अञ्। विद्वद्भिनिर्मिताम् (नावम्) नोदनीयां नौकाम् (स्वरित्राम्) अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। ऋ गतौ-इत्र। शोभननौकाचालनकाष्ठयुक्ताम् (अनागसः) अ० २।१०।१। इण आगोऽपराधे च। उ० ४।११२। इण् गतौ असुन्, आगादेशः। अनागस्त्वमनपराधत्वम्। आग आङ्पूर्वाद् गमेः-निरु० ११।२४। अनपराधाः (अस्रवन्तीम्) स्रवणरहिताम् (आ रुहेम) आरूढा भूयास्म (स्वस्तये) क्षेमाय ॥