Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 66/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - ब्राह्मणम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्म सूक्त
यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु। यदश्र॑वन्प॒शव॑ उ॒द्यमा॑नं॒ तद्ब्राह्म॒णं पुन॑र॒स्मानु॒पैतु॑ ॥
स्वर सहित पद पाठयदि॑ । अ॒न्तरि॑क्षे । यदि॑ । वाते॑ । आस॑ । यदि॑ । वृ॒क्षेषु॑ । यदि॑ । वा॒ । उल॑पेषु । यत् । अश्र॑वन् । प॒शव॑: । उ॒द्यमा॑नम् । तत् । ब्राह्म॑णम् । पुन॑: । अ॒स्मान् । उ॒प॒ऽऐतु॑ ॥६८.१॥
स्वर रहित मन्त्र
यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु। यदश्रवन्पशव उद्यमानं तद्ब्राह्मणं पुनरस्मानुपैतु ॥
स्वर रहित पद पाठयदि । अन्तरिक्षे । यदि । वाते । आस । यदि । वृक्षेषु । यदि । वा । उलपेषु । यत् । अश्रवन् । पशव: । उद्यमानम् । तत् । ब्राह्मणम् । पुन: । अस्मान् । उपऽऐतु ॥६८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 66; मन्त्र » 1
विषय - वेदविज्ञान की व्याप्ति का उपदेश।
पदार्थ -
(यदि=यत्) जो [ब्रह्मज्ञान] (अन्तरिक्षे) आकाश में, (यदि) जो (वाते) वायु में (यदि) जो (वृक्षेषु) वृक्षों में, (वा) और (यदि) जो (उलपेषु) कोमल तृणों [अन्न आदि] में (आस) व्याप्त था। (यत्) जिस (उद्यमानम्) उच्चारण किये हुए को (पशवः) सब प्राणियों ने (अश्रवन्) सुना है, (तत्) वह (ब्राह्मणम्) वेद विज्ञान (पुनः) बारंबार [अथवा परजन्म में] (अस्मान्) हमें (उपैतु) प्राप्त होवे ॥१॥
भावार्थ - ईश्वरज्ञान सब पदार्थों में, और सब पदार्थ ईश्वरज्ञान में हैं, मनुष्य उस ईश्वरज्ञान को नित्य और जन्म-जन्म में प्राप्त करके मोक्षपदभागी होवें ॥१॥
टिप्पणी -
१−(यदि) यत्। ब्राह्मणम् (अन्तरिक्षे) आकाशे (यदि) (वाते) वायौ (आस) अस गतिदीप्त्यादानेषु-लिट्। व्याप्तं बभूव (यदि) (वृक्षेषु) सेवनीयेषु तरुषु (यदि) (वा) अवधारणे। समुच्चये (उलपेषु) विटपविष्टपविशिपोलपाः। उ० ३।१४५। बल संवरणे-कप् प्रत्ययः, सम्प्रसारणम्। कोमलतृणेषु। अन्नादिषु (यत्) ब्राह्मणम् (अश्रवन्) शृणोतेर्लङि छान्दसः शप्। अशृण्वन् (पशवः) अ० २।२६।१। मनुष्यादिप्राणिनः (उद्यमानम्) वद् व्यक्तायां वाचि कर्मणि शानच्, यक्, यजादित्वात् सम्प्रसारणम्। उच्चार्यमाणम् (तत्) (ब्राह्मणम्) तस्येदम्। पा० ४।३।१२०। ब्रह्मन्-अण्। अन्। पा० ६।४।१६७। न टिलोपः। ब्रह्मणः परमेश्वरस्य ब्राह्मणस्य वेदम्। वेदविज्ञानम् (पुनः) वारं वारम्। परजन्मनि वा (अस्मान्) उपासकान् (उपैतु) उप+आ+एतु। प्राप्नोतु ॥