Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 3
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते त॒वाना॑गसो॒ अदि॑तये स्याम ॥
स्वर सहित पद पाठउत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒य॒थ॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥८८.३॥
स्वर रहित मन्त्र
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय। अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
स्वर रहित पद पाठउत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रयथ । अध । वयम् । आदित्य । व्रते । तव । अनागस: । अदितये । स्याम ॥८८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 3
विषय - ईश्वर के नियम का उपदेश।
पदार्थ -
(वरुण) हे स्वीकार करने योग्य ईश्वर ! (अस्मत्) हमसे (उत्तमम्) ऊँचेवाले (पाशम्) पाश को (उत्) ऊपर से, (अधमम्) नीचेवाले को (अव) नीचे से, और (मध्यमम्) बीचवाले को (वि) विविध प्रकार से (श्रथाय) खोल दे। (आदित्य) हे सर्वत्र प्रकाशमान वा अखण्डनीय जगदीश्वर ! (अध) फिर (वयम्) हम लोग (ते) तेरे (व्रते) वरणीय नियम में (अदितये) अदीना पृथिवी के [राज्य के] लिये (अनागसः) निरपराधी (स्याम) होवें ॥३॥
भावार्थ - मनुष्य परमेश्वर की आज्ञा का यथावत् पालन करके धर्माचरण से भूत, भविष्यत् और वर्तमान क्लेशों को अलग करके सदा सुखी रहें ॥३॥ यह मन्त्र ऋग्वेद में है। १।२४।१५। और यजु० १२।१२। और अथर्ववेद में भी है−१८।४।६९ ॥
टिप्पणी -
३−(उत्) ऊर्ध्वम्। उत्कृष्य (उत्तमम्) ऊर्ध्वस्थिम् (पाशम्) बन्धनम् (अस्मत्) अस्मत्तः (अव) अधस्तात्। अवकृष्य (अधमम्) नीचस्थम् (वि) विविधम् (मध्यमम्) मध्यस्थम् (श्रथाय) श्रथ दौर्बल्ये, चुरादिः, छान्दसो दीर्घः। शिथीलीकुरु। विमोचय (अध) अथ। अनन्तरम् (आदित्य) अ० १।९।१। आ+दीपी दीप्तौ-यक्। यद्वा। नञ्−दो अव खण्डने-क्तिन्, ततो ण्य प्रत्ययः। सर्वतः प्रकाशमान। अदितिरखण्डनं यस्यास्ति आदित्यः। हे अखण्डनीय (व्रते) वरणीये नियमे (तव) (अनागसः) अ० ७।७।१। अनपराधिनः। (अदितये) अ० २।२८।४। अदीनायै पृथिव्यै, तद्राज्याय (स्याम) भवेम ॥