अथर्ववेद - काण्ड 3/ सूक्त 2/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
व्या॑कूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत। अथो॒ यद॒द्यैषां॑ हृ॒दि तदे॑षां॒ परि॒ निर्ज॑हि ॥
स्वर सहित पद पाठवि । आ॒ऽकू॒त॒य॒: । ए॒षा॒म् । इ॒त॒ । अथो॒ इति॑ । चि॒त्तानि॑ । मु॒ह्य॒त॒ । अथो॒ इति॑ । यत् । अ॒द्य । ए॒षा॒म् । हृ॒दि । तत् । ए॒षा॒म् । परि॑ । नि: । ज॒हि॒ ॥२.४॥
स्वर रहित मन्त्र
व्याकूतय एषामिताथो चित्तानि मुह्यत। अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥
स्वर रहित पद पाठवि । आऽकूतय: । एषाम् । इत । अथो इति । चित्तानि । मुह्यत । अथो इति । यत् । अद्य । एषाम् । हृदि । तत् । एषाम् । परि । नि: । जहि ॥२.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 2; मन्त्र » 4
Subject - Storm the Enemy
Meaning -
Let their plans and strategies be uprooted from here. Let their mind and morale be stupefied and gone astray, and then whatever else now is at their heart, frustrate all that too.