Loading...
अथर्ववेद > काण्ड 4 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 5
    सूक्त - मृगारोऽअथर्वा वा देवता - भवाशर्वौ रुद्रो वा छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ययो॑: । व॒धात् । न । अ॒प॒ऽपद्य॑ते । क: । च॒न । अ॒न्त: । दे॒वेषु॑ । उ॒त । मानु॑षेषु । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.५॥


    स्वर रहित मन्त्र

    ययोर्वधान्नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ययो: । वधात् । न । अपऽपद्यते । क: । चन । अन्त: । देवेषु । उत । मानुषेषु । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 5

    Meaning -
    Whose fatal strike no one can escape, whether among the brightest or among ordinary people, who govern and control the bipeds and the quadrupeds both, pray save us from sin and suffering in this world of life and death.

    इस भाष्य को एडिट करें
    Top