Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 120/ मन्त्र 3
सूक्त - कौशिक
देवता - अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोक सूक्त
यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्वः स्वायाः॑। अश्लो॑णा॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽहार्द॑: । सु॒ऽकृत॑: । मद॑न्ति । वि॒ऽहाय॑ । रोग॑म् । त॒न्व᳡: । स्वाया॑: । अश्लो॑णा: । अङ्गै॑: । अह्रु॑ता: । स्व॒:ऽगे । तत्र॑ । प॒श्ये॒म॒ । पि॒तरौ॑ । च॒ । पु॒त्रान्॥१२०.३॥
स्वर रहित मन्त्र
यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः। अश्लोणा अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥
स्वर रहित पद पाठयत्र । सुऽहार्द: । सुऽकृत: । मदन्ति । विऽहाय । रोगम् । तन्व: । स्वाया: । अश्लोणा: । अङ्गै: । अह्रुता: । स्व:ऽगे । तत्र । पश्येम । पितरौ । च । पुत्रान्॥१२०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 120; मन्त्र » 3
Subject - The Happy Home
Meaning -
Where people of holy heart and virtuous action live and rejoice, having left off the ailments of their own body, with limbs undamaged and whole, their minds unsullied by crookedness, in a land of joy, there let us live and see our parents and children together in a happy home.