Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 42/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - सोमारुद्रौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद्विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त्त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥
स्वर सहित पद पाठसोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मत् । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । न॒: । अस॑त् । त॒नूषु॑ । ब॒ध्दम् । कृ॒तम् । एन॑: । अ॒स्मत् ॥४३.२॥
स्वर रहित मन्त्र
सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम्। अव स्यतं मुञ्चतं यन्नो असत्तनूषु बद्धं कृतमेनो अस्मत् ॥
स्वर रहित पद पाठसोमारुद्रा । युवम् । एतानि । अस्मत् । विश्वा । तनूषु । भेषजानि । धत्तम् । अव । स्यतम् । मुञ्चतम् । यत् । न: । असत् । तनूषु । बध्दम् । कृतम् । एन: । अस्मत् ॥४३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 42; मन्त्र » 2
Subject - Freedom from Disease
Meaning -
O Soma and Rudra, ruler and physician, both of you strengthen our body system with all these medical efficacies. Throw out of us and release us from whatever ailment persists in our bodies for reasons of weakness or trespass we might have committed and suffered.