Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 72/ मन्त्र 3
श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुशृ॑तं मन्ये॒ तदृ॒तं नवी॑यः। माध्य॑न्दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरु॒कृज्जु॑षा॒णः ॥
स्वर सहित पद पाठश्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽशृ॑तम् । म॒न्ये॒ । तत् । ऋ॒तम्। नवी॑य: । माध्यं॑दिनस्य । सव॑नस्य । द॒ध्न: । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृत् । जु॒षा॒ण: ॥७६.१॥
स्वर रहित मन्त्र
श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः। माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥
स्वर रहित पद पाठश्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽशृतम् । मन्ये । तत् । ऋतम्। नवीय: । माध्यंदिनस्य । सवनस्य । दध्न: । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाण: ॥७६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 72; मन्त्र » 3
Subject - Purushartha
Meaning -
I believe the havi is ripe and ready at dawn in the cow’s udders. It is ripe and seasoned on the fire. This process of nature and fire, the eternal law, is universal, ancient, yet it is ever new too. O lord of thunder and justice, universal cause of action, loving and sociable, come and taste of the milky sweets of mid¬ day’s yajna of action and celebrative homage.