Loading...
ऋग्वेद मण्डल - 8 के सूक्त 96 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 96/ मन्त्र 1
    ऋषिः - तिरश्चीरद्युतानो वा मरुतः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑: सु॒वाच॑: । अ॒स्मा आपो॑ मा॒तर॑: स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ । अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥


    स्वर रहित मन्त्र

    अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्या: सुवाच: । अस्मा आपो मातर: सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥

    स्वर रहित पद पाठ

    अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुऽवाचः । अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥ ८.९६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 96; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 32; मन्त्र » 1

    भावार्थ - ऐश्वर्याची साधना करणाऱ्या पुरुषार्थी माणसाला प्रात:काळापासून जागरण व उद्बोधनाची प्रेरणा मिळते व रात्र ही आपल्या अंतिम वेळी पाठ केलेल्या सूक्तीद्वारे शुभ कर्माची प्रेरणा देते. ॥१॥

    इस भाष्य को एडिट करें
    Top