Loading...
ऋग्वेद मण्डल - 9 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 73/ मन्त्र 2
    ऋषिः - पवित्रः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    स॒म्यक्स॒म्यञ्चो॑ महि॒षा अ॑हेषत॒ सिन्धो॑रू॒र्मावधि॑ वे॒ना अ॑वीविपन् । मधो॒र्धारा॑भिर्ज॒नय॑न्तो अ॒र्कमित्प्रि॒यामिन्द्र॑स्य त॒न्व॑मवीवृधन् ॥

    स्वर सहित पद पाठ

    स॒म्यक् । स॒म्यञ्चः॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । वे॒नाः । अ॒वी॒वि॒प॒न् । मधोः॑ । धारा॑भिः । ज॒नय॑न्तः । अ॒र्कम् । इत् । प्रि॒याम् । इन्द्र॑स्य । त॒न्व॑म् । अ॒वी॒वृ॒ध॒न् ॥


    स्वर रहित मन्त्र

    सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् । मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥

    स्वर रहित पद पाठ

    सम्यक् । सम्यञ्चः । महिषाः । अहेषत । सिन्धोः । ऊर्मौ । अधि । वेनाः । अवीविपन् । मधोः । धाराभिः । जनयन्तः । अर्कम् । इत् । प्रियाम् । इन्द्रस्य । तन्वम् । अवीवृधन् ॥ ९.७३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 73; मन्त्र » 2
    अष्टक » 7; अध्याय » 2; वर्ग » 29; मन्त्र » 2

    भावार्थ - जे लोक परमेश्वराचे महत्त्व जाणून व धारण करून महान पुरुष बनतात ते या भवसागराच्या लाटेतून तरुन जातात व परमेश्वराच्या यशाचे गान करून इतर लोकांनाही अभ्युदययुक्त बनवून या भवसागरातून पार पडतात. ॥२॥

    इस भाष्य को एडिट करें
    Top