अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 8
स॑त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः। स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥
स्वर सहित पद पाठस॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒ह॒:ऽदाम् । स॒स॒ऽवांस॑म् । स्व॑:। अ॒प: । च॒ । दे॒वी: ॥ स॒सान॑ । य: । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णास: ॥११.८॥
स्वर रहित मन्त्र
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः। ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
स्वर रहित पद पाठसत्राऽसहम् । वरेण्यम् । सह:ऽदाम् । ससऽवांसम् । स्व:। अप: । च । देवी: ॥ ससान । य: । पृथिवीम् । द्याम् । उत । इमाम् । इन्द्रम् । मदन्ति । अनु । धीऽरणास: ॥११.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 8
Translation -
The men of high learnings find pleasure making accordant (in their uses) this mighty fire which is always conquering, excellent, might-giving and which gives light and luminous waters and who put into order this earth and heaven.