Loading...
अथर्ववेद > काण्ड 4 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 7
    सूक्त - अथर्वा देवता - शङ्खमणिः, कृशनः छन्दः - पञ्चपदा परानुष्टुब्विराट्शक्वरी सूक्तम् - शङ्खमणि सूक्त

    दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्वन्तः। तत्ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ॥

    स्वर सहित पद पाठ

    दे॒वाना॑म् । अस्थि॑ । कृश॑नम् । ब॒भू॒व॒ । तत् । आ॒त्म॒न्ऽवत् । च॒र॒ति॒ । अ॒प्ऽसु । अ॒न्त: । तत् । ते॒ । ब॒ध्ना॒मि॒ । आयु॑षे । वर्च॑से । बला॑य । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । का॒र्श॒न: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥१०.७॥


    स्वर रहित मन्त्र

    देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः। तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥

    स्वर रहित पद पाठ

    देवानाम् । अस्थि । कृशनम् । बभूव । तत् । आत्मन्ऽवत् । चरति । अप्ऽसु । अन्त: । तत् । ते । बध्नामि । आयुषे । वर्चसे । बलाय । दीर्घायुऽत्वाय । शतऽशारदाय । कार्शन: । त्वा । अभि । रक्षतु ॥१०.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 7

    Translation -
    The bone of the enlightened ones becomes the pearl. That, being animated with soul, moves about within the waters. That (pearl) I tie on you for life, lustre, strength, and long life of a hundred autumns. May the pearl jewel, protect you from all sides.

    इस भाष्य को एडिट करें
    Top